SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ त्यादि, हे मतिमन्!-सश्रुतिक! भावसुप्तातुरान् पश्य, मत्वा चैतज्जाग्रत्सुप्तगुणदोपापादनं मा स्वापमतिं कुरु, किं च-'आरंभज'मित्यादि, आरम्भः-सावद्यक्रियानुष्ठानं तस्माजातमारम्भ, किं तद्?-दुःखं तत्कारणं वा कर्म । 'इद'मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तपाणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह-'माई' इत्यादि, मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह-'उवेह' इत्यादि, बहुवचननिर्देशादाद्यों गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः रूयादिपदार्थान्यथाग्रहणाद्वक्रः, किं च-स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की-मरणादुद्विजंस्तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोतीत्याह-'अप्पमत्त' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् । कश्चाप्रमत्तः स्याद् ?, य कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति -'उवरओ' इत्यादि, उपरतो मनोवाक्कायैः, कुतः?-पापोपादानकर्मभ्यः, कोऽसौ ?-वीरः, किम्भूतो?-गुप्तात्मा, कश्च गुप्तो भवति?, यः खेदज्ञो, यश्च खेदज्ञः स कं गुणमवामुयादित्याह-'जे पज्जव' इत्यादि, शब्दादीनां विषयाणां पर्यवाःविशेषास्तेषु-तन्निमित्तं जातं शस्त्रं पर्यवजातशत्रं-शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य पर्यवजातशस्त्रस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति-यः शब्दादिपर्यायानिष्टानिष्टात्मकान् तत्प्राप्तिपरिहारानुष्ठानं च SACARCIARRAS
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy