________________
श्रीआचा-18|| उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति ?, यतः स्त्यानदि त्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धि-| शीतो. राङ्गवृत्तिः कस्यापि न भवति, तद्वन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिर्वृत्तिबादरगुणस्थानकालसं(शी०) ख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते
उद्देशका १ भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः । यथा ॥१५२॥
|च द्रव्यसुप्तो दुःखमवामोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह
जह सुत्त मत्त मुच्छिय असहीणो पावए पहुं दुक्खं । तिव्वं अपडियारंपि वद्यमाणो तहा लोगो ॥ २१३ ।।
सुप्तो निद्रया मत्तो मदिरादिना मूछितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवानोति, तथा भावस्वापे-मिथ्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकभवादिकं दुःखमवामोतीति गाथार्थः॥ पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाहएसेव य उवएसो पदित्त पयलाय पंथमाईसुं । अणुहवइ जह सचेओ सुहाई समणोऽवि तह चेव ।। २१४॥ _ 'एष एव' पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि-सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनु-2 भवति, पथिविषये च सापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति, यथा विवेकी ॥१५२॥ सुखेनैव तमपायं परिहरन् सुखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाजाग्रदवस्थामनुभवन् समस्तक