________________
रीरं वा, अथवा 'धुनीहि' विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कथं तच्छरीरकं धूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याह-प्रान्तं' स्वाभाविकरसरहितं स्वल्पं वा 'रूक्षम्' आगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं-द्वेषरहितं विगतधूमं रूक्षं-रागरहितमपगताङ्गारं 'सेवन्ते' भुञ्जते, के ?–'वीराः' साधवः, किंभूताः?|'समत्वदर्शिनः' रागद्वेषरहिताः सम्यक्त्वदर्शिनो वा-सम्यक् तत्त्वं सम्यक्त्वं तद्दर्शिनः परमार्थदृशः, तथाहि-इदं शरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा, प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवामोतीत्याह-'एस' इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कादिशरीरं धुनानो भावतो भवौघं तरतीति । कोऽसौ ?–'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौघं, कश्च भवौघं तरति ?-यो 'मुक्तः' सवाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ?-यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिरधिकार परिसमाप्तौ, ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह
दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए, एस वीरे पसंसिए, अच्चेइ लोयसंजोगं, एस नाए पवुच्चइ (सू० १००)