________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १४३ ॥
यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषं, तस्माच्छन्दान् स्पर्शांश्च लोक. वि. २ मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे 'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति - मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यं तत्राप्यधिसहनं ४ उद्देशकः ६ विधेयमिति, उक्तं – “संद्देसु अ भद्दयपावएसु, सोयविसयमुवगएसु । तुट्ठेण व रुद्वेण व समणेण सया न होअव्वं ॥ १ ॥ | एवं रूवेसु अ भद्दयपावएसु० । तहा गंधेसु अ० ॥” इत्यादि वाच्यं ततश्च शब्दादीन्विषयानधिसहमानः किं कुर्या - दित्याह - ' निब्बिंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व - जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् 'इह' मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दिः तुष्टिः प्रमोदो यथा ममैतत्समृद्ध्यादिकमभूद्भवति भविष्यति वेत्येवंविकल्प जनितां नन्दीं जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ?, उक्तं च- विभव इति किं मदस्ते १, च्युतविभवः किं विषादमुपयासि ? । करनिहित कन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥ १ ॥” एवं रूपबलादिष्वपि वाच्यं, सनत्कुमारदृष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणा|मतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्-किमालम्ब्य करोतीत्याह - 'मुणी' त्यादि, मुनिस्त्रिका - लवेदी यतिरित्यर्थः, मुनेरयं मौनः -संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् ? - धुनीयात् कर्म्मशरीरकं औदारिकादिश
१ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् ॥ १ ॥ एवं रूपेषु च भद्रकपापकेषु । तथा गन्धेषु च.
॥ १४३ ॥