________________
श्रीआचाराङ्गवृत्तिः
लोक.वि.२
(शी०)
॥१३६॥
SASAR ALGAAKARSAR
इत्येवमादि, तथा 'तिप्पई'त्ति 'तिपृ ते प्रक्षरणार्थों' तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीतियावत्, तथा शारीरमानसैदुःखैः पीड्यते, तथा परिः-समन्ताद्वहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् क्वचिद्गते स मया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिपो धर्मो नाचीर्णः? इत्येवं शोचत इति, उक्तं च-"भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किश्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥१॥" तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधायों यततः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥इत्यादि ॥ का पुनरेवं न शोचत इत्याह- . .
आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ उड्ढे भागं जाणइ तिरियं भागं जाणइ, गड्डिए लोए अणुपरियहमाणे, संधि विइत्ता इह मच्चिएहिं, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो
॥१३६॥