________________
वितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम्-आयुष्कं तत् क्षीणं सत् 'दुष्प्रतिवृहणीय |दुरभावार्थे, नैव वृद्धिं नीयते इतियावत्, अथवा जीवितं-संयमजीवितं तहुष्प्रतिबृंहणीयं, कामानुषक्तजनान्तवेर्तिना दुःखेन वृद्धि नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च-“आगासे गंगसोउब्व, पडिसोउब्व दुत्तरो। बाहाहिं चेव गंभीरो, तरिअन्वो महोअही ॥१॥ वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयब्वा सुदुक्करं ॥२॥" इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति. प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह'कामकामी' इत्यादि, कामान् कामयितुम्-अभिलषितुं शीलमस्येति कामकामी 'खलु' वाक्यालङ्कारे 'अयम्' इत्यध्यक्षः 'पुरुषः' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःखविशेषाननुभवतीति दर्शयति-से सोयई'त्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च-“गते प्रेमावन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तमुप्रेक्ष्योप्रेक्ष्य प्रियसखि! गतांस्तांश्च दिवसान् , न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥१॥” इत्यादि शोचते, तथा 'जूरईत्ति हृदयेन खिद्यते, तद्यथा-"प्रथमतरमथेदं चिन्तनीयं तवासीद्वहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय! निराश! क्लीव! संतप्यसे किं?, न हि जड गततोये सेतुबन्धाः क्रियन्ते ॥ १॥"
१ आकाशे गङ्गाश्रोत इव, प्रतिश्रोत इव दुस्तरः । बाहुभ्यामेव गम्भीरस्तरीतव्यो महोदधिः ॥१॥ वालुकाकवल इव, निराखाद एव संयमः । यवा लोहमया |एव, चर्वयितव्याः सुदुष्करम् ॥२॥
RRRRRRRRRRECE