________________
मा. सू. २३
प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा - क्रोधोदयात् स्कन्दाचार्येण स्वशिष्ययन्त्रपीलन व्यतिकरमालोक्य सबलवाहन| राजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि - कथमहं शिशून् स्वभ्रादनुपन्ननिरावरणज्ञानांश्छद्मस्थः सन् द्रक्ष्यामीति ?, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतेक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वते, अथवा अप्रतिज्ञः-अनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैवैतद्भविष्यतीत्येवं प्रतिज्ञां न करोतीत्यप्रतिज्ञो, यदिवा स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यैकपक्षात्रधारणं प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि -मैथुनविषयं विहायान्यत्र न क्वचिन्नियमवती प्रतिज्ञा विधेया, यत उक्तम् -"न ये किंचि अणुण्णायं पडिसिद्धं वावि जिणवरिंदेहिं । मोतुं मेहुणभावं न तं विणा रागदोसेहिं ॥ १ ॥ तथा
१ नापि किञ्चिदकल्पनीयमनुज्ञातं कारणे च समुत्पन्ने नापि किञ्चित् प्रतिषिद्धं, किन्तु एषा तेषां तीर्थंकृतां निश्चयव्यवहारनयद्वयाश्रिता सम्यगाझा मन्तव्या यदुत कार्ये ज्ञानाद्यालम्बने सत्येन सद्भावसारेण साधुना भवितव्यं, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः, तात्त्विकज्ञानाद्यालम्बन सिध्यैव मोक्षपथ सिद्धेर्बाह्यानुष्ठानस्य अनेकान्तिकत्वादनात्यन्तिकत्वाच्च, इत्थमेव तस्य द्रव्यत्वसिद्धेः, अथवा सत्यं नाम संयमस्तेन कार्ये समुत्पन्ने भवितव्यं यथा यथा संयम उपसर्पति तथा तथा कर्त्तव्यं तदुत्सर्पणं च शक्त्यनिगूहनेनैव निर्वहतीति, सर्वत्र यथाशक्ति यतितव्यमेवेति भावः, आह च बृहद्भाष्यकारः " कज्जं नाणादीयं सचं पुण होइ संजमो णियमा । जह जह सोहेद चरणं तह तह कायब्वयं होइ ॥ १॥" दोषा रागादयो निरुध्यन्ते सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते येनानुष्ठानविशेषेण पूर्वकर्माणि प्राग्भवोपात्तज्ञानावरणादिकर्माणि च येन क्षीयन्ते स सोऽनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः, रोगावस्थासु ज्वरादिरोगप्रकारेषु शमनमिवोचितौषधप्रदानापथ्य परिहारायनुष्ठानमिव यथा तेन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादे चापवादं समाचरतो रागादयो निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते,