________________
(शी०)
श्रीआचा- वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ लोक.वि.२ राङ्गवृत्तिः पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकर्मपिण्डश्चेति १६ । तथा दशैषणादोषाः, ते चामी-शङ्कित १ यक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ऽपरिणत ८ लिप्तो ९ झित
उद्देशक-५ १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोलादिता इति। ॥१३२॥
तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहितः-किमिति भवतां सर्वजनाचीर्ण स्नानं न सम्मतमिति !, स आह-प्रायः सर्वेषामेव यतीनां कामा|ङ्गत्वाजलस्नानं प्रतिषिद्धं, तथा चार्षम्-"नानं मददपकर, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्रान्ति दादमे रताः॥१॥” इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्न उत्तरदानकुशलो भवति, तथा 'भावन्ने भावः-चित्ताभिप्रायो
दातुः श्रोतुर्वा तं जानातीति भावज्ञः, किं च-परिग्गरं अममायमाणे' परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह-'कालाणुहाई' यद्यस्मिन् ||४ काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी-कालानतिपातकर्तव्योद्यतो, ननु चास्यार्थस्य 'से भिक्खू कालने' इत्यनेनैव गतार्थत्वात् किमर्थ पुनरभिधीयते इति !, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्य विधत्त इति । किंच-'अपडिण्णे' नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः,
१३२॥