________________
श्रीआचा
लोक.वि.२
राङ्गवृत्तिः
उद्देशका ५
(शी०)
॥१३०॥
देशः-प्राघूर्णकस्तदर्थ कर्मसमारम्भाः क्रियन्त इति सम्बन्धः, तथा 'पुढो पहेणाए' इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थ तथा 'सामासाए'त्ति श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थ, तथा 'पायरासाए'त्ति प्रातरशनं प्रातराशस्तस्मै, कर्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह-'सन्निहि' इत्यादि, सम्यग्निधीयत इति सन्निधिःविनाशिद्रव्याणां दध्योदनादीनां संस्थापनं, तथा सम्यग् निश्चयेन चीयत इति सन्निचयः-अविनाशिद्रव्याणां अभयासितामृद्वीकादीनां सङ्ग्रहः, सन्निधिश्च सन्निचयश्च सन्निधिसन्निचयं, प्राकृतशैल्या पुल्लिङ्गता, अथवा सन्निधेः सन्नि-1 चयः सन्निधिसन्निचयः, स च परिग्रहसंज्ञोदयादाजीविकाभ्यासाद्वा धनधान्यहिरण्यादीना क्रियत इति । स च किमर्थमित्याह-'इह' इत्यादि, 'इहे'ति मनुष्यलोके 'एकेषा'मिहलोके कृतपरमार्थबुद्धीनां 'मानवाना' मनुष्याणां 'भोजनाय' उपभोगार्थमिति । तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थ कर्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्मामाशाय प्रातराशाय केषाञ्चिन्मानवानां भोजनार्थ सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्त्तव्यमित्याह ॥
समुट्ठिए अणगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए
नाइयावए न समणुजाणइ, सवामगंधं परिन्नाय निरामगंधो परिव्वए (सू०८७) सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽ|गारं-गृहमस्येत्यनगारः, पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः, सोऽनगारः आराद्यातः सर्वहेयधर्मेभ्यः
॥१०॥