SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ | कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणां वा, समारम्भा इति मध्यग्रहणाद्बहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानं, तेनायमर्थः - शरीरकलत्राद्यर्थे संरम्भसमारम्भारम्भाः 'क्रियन्ते' अनुष्ठीयन्ते तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपात कायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः दण्डत्र्यव्यापारापादितचिकीर्षितप्राणातिपातादिक्रिया निर्वृत्तिरारम्भः, कर्म्मणो वा - अष्टप्रकारस्य समारम्भाः - उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुर्थ्यर्थे षष्ठी, साऽपि तादर्थे, कः पुनरसौ लोको ? यदर्थं संरम्भसमारम्भारम्भाः क्रियन्त इत्याह- 'तंजहा अप्पणो से' इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्म्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुर्वृत्तिमन्वेषयेत्, यदर्थे च लोकेन कर्म्मसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति - 'तंजहा अप्पणो से' इत्यादि, 'तद्यथे'त्युपप्रदर्शनार्थो, नोकमात्रमेवान्यदप्येवं जातीयकं मित्रादिकं द्रष्टव्यं, 'से' तस्यारम्भारिप्सोर्य आत्मा - शरीरं तस्मै अर्थ तदर्थे | कर्म्मसमारम्भाः - पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितं न च शरीरं लोको भवति, नैतदस्ति, यतः परमार्थदृशां ज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्वे शरीराद्यपि पराक्यमेव, तथाहिबाह्यस्य पौद्गलिकस्याचेतनस्य कर्म्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति, तदेवं कश्चिच्छरीरनिमित्तं कर्म्मारभते परस्तु पुत्रेभ्यो दुहितृभ्यः स्नुषाः - वध्वस्ताभ्यो ज्ञातयः - पूर्वापर सम्बद्धाः स्वजनाः तेभ्यो धात्रीभ्यो राजभ्यो दासेभ्यो दासीभ्यः कर्म्म करेभ्यः कर्म्मकरीभ्यः आदिश्यते परिजनो यस्मिन्नागते तदातिथेयायेत्या
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy