SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ १२२ ॥ शिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रका| शमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ १ ॥” तदेवं सर्वकषत्वं | मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं किमिति ?, यतः - 'सब्वे पाणा पियाज्या' प्राणशब्देनात्राभेदोपचारात् तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो - जन्तवः 'प्रियायुषः' प्रियमायुर्येषां ते तथा, ननु च सिद्धैर्व्यभिचारो, न हि ते प्रियायुषस्तदभावात्, नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत्, पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः - आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, | सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च- 'सुहसाया दुक्खपडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादाः - सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखम्-असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूलाः - दुःखद्वेषिण इत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं - दुःखकारणं तत् प्रन्त्यप्रियवधाः, तथापि 'पियजीविणो' प्रियं दयितं जीवितम् - आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः - दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च - "रेमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई । मग्गइ सरीरमहणो रोगी जीए चिय कयत्थो ॥ १ ॥” तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थे दयि१ रमते विभववान् विशेषे स्थितिमात्रं स्तोकविस्तारोऽभिलषति । मार्गयति शरीरमधनो रोगी जीवित एव कृतार्थः ॥ १ ॥ लोक. वि. २ उद्देशकः ३ ॥ १२२ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy