SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ एए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च आयाय संमि ठाणे न चिट्ठ, वितहं पप्पऽखेयने तंमि ठाणंमि चिट्ठइ (सू०८० ) 'इणमेव' इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा 'नावकाङ्क्षति' नाभिलषन्ति, ये जना 'ध्रुवचारिणो' ध्रुवो - मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतंचारित्रं तच्चारिण इति । किं च - 'जाई' इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वः तत् 'परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत्' उद्युक्तो भवेत्, क्क १ – 'सङ्क्रमणे' सङ्क्रम्यतेऽनेनेति सङ्क्रमणं - चारित्रं तत्र 'दृढो' विश्रोतसिकारहितः परीषहोपसगैः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयमं चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशङ्कं मनो यस्यासावशङ्कमनाः - तपोदमनियम निष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्त्तेत यतस्तद्वान् राजराजादीनां पूजाप्रशंसार्हो भवति, न चौपशमिक सुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किञ्चित् श्रूयते, उकं च - "संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥ १ ॥” इत्यादि । तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यं, न चैतद्भावनीयं यथा- परुरारि वृद्धावस्थायां वा धर्मं करिष्यामीति, यतः - 'नत्थि' इत्यादि, 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः - अनागमनमनवसर इतियावत्, तथाहि - सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मपावकान्तर्वर्त्ती जन्तुर्जतुगोलक इव न विलीयेत इति, उक्तं च- “शिशुम
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy