________________
लोक.वि.२
श्रीआचा- राङ्गवृत्तिः (शी०)
उद्देशका
॥१०॥
सन्?-प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युपत्तेरारभ्यानादिभवाभ्यासान्मातापित्रादिविषयो भवतीति दर्शयति—'माया में' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वादोपजायते, रागे |च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि वा तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा-चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा-जरासन्धो जामातरि कसे व्यापादिते स्वबलावलेपादपस्तवासुदेवपदानुसारी सबलवाहनः क्षयमगात्, स्नुषा मे न जीवन्तीत्यारम्भादौ प्रवर्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में' सखा-मित्र स्वजनः-पितृव्यादिः संग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो-भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित इति परितप्यते, विविक्तं शोभनं प्रचुरं वा उपकरणं-हस्त्यश्वरथासनमञ्चकादि परिवर्तनं-द्विगुणत्रिगुणादिभेदभिन्नं तदेव, |भोजनं-मोदकादि आच्छादनं-पट्टयुग्मादि तच्च मे भविष्यति नष्टं वा । 'इच्चत्थ मिति इत्येवमर्थ गृद्धो लोकः तेष्वेव
॥१०
॥