________________
NAGARRARG
निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः, वेदनीयं द्विधा-सातासातभेदात् , मोहनीयं द्विधा-दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिधामिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधं, चारित्रमोहनीयं पोडेशकषायनवनोकषायभेदात्पञ्चविंशतिविधम् , अत्रापि मिवाथ्यात्वं सञ्जवलनवर्जा द्वादश कषायाश्च सर्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात्,
नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्दा जातिरेकेन्द्रियादिभेदासश्वधा शरीराणि औदारिकादिभेदासञ्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा सङ्घातनामौदारिकादिकर्मवर्गणारचनाविशे-18 पसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोदैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पञ्चधा आनुपूर्वी नारकादिश्चतुर्द्धा विहायोगतिः प्रशस्ताप्रशस्तभेदात् द्विधा अगुरुलघूपघातपराधातातपोद्योतोच्छासप्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययश-कीर्तिअयशःकीर्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानला-1 भभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते-"पंडिणीयमंतराइय उवघाए
१ सप्तधा-अनन्तानुबन्धिमिथ्यात्वादिभेदात् बन्धतस्तु पञ्चधा प्र. २ द्वादश प्र. ३ एकविंशतिविधम् प्र. ४ प्रत्यनीकत्वेऽन्तराय उपघाते.