________________
GAA
5 . नमः श्रीवर्द्धमानाय, बर्द्धमानाय पर्वयैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने ॥१॥
- शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमित्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥ २॥ हैl उक्त प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इह हि मिथ्यात्वोपशमक्षयक्षयोपशमान्यतरा-द।
वाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलपाणिगणसङ्घटनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेर्हिस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासेनैकेन्द्रियावनिजीवनानलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रम समानजातीयाश्मलताधु ददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्मण्डूकवत् विशिष्टाहारोपचयापचयशरीरा-18 भिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहतानियततिरश्चीनगमनाद्वाश्वादिवत् सालककनूपुरालङ्कारकामिनीचरणताडनविकाराधिगतेः कामुकवदित्यादिभिः प्रयोगैः तथोच्चैः शिर उद्घाख्य सूक्ष्मबादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्यातकअपर्याप्तकभेदांश्च प्रदर्य शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव
चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि-अधिगतशत्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादि-1 सातैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपश्चमहानत-15
भारस्य साधोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते।।
A AAAAca