SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- राङ्गवृत्तिः (शी०) ॥७६॥ शस्त्र-परिर उद्देशकः७ सुविहिय! तो सावगरक्खसा मुच्चे ॥१३॥ आयंकभओविग्गो ताहे सो णिच्चउज्जुओ जाओ। कोवियमती य समए रण्णा मरिसाविओ पच्छा ॥ १४ ॥ दब्वायंकादंसी अत्ताणं सव्वहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स ॥ १५ ॥ भावातङ्कादशी तु नरकतिर्यङमनुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्त्तते वायुसमारम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदर्शी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायां प्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्तेः कारणमाह-जे अज्झत्थ'मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्म, तच्च सुखदुःखादि, तद्यो जानाति-अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनित स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा ?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतेरतराव्यभिचारादिति । परात्मपरिज्ञानाच्च यद्विधेयं तद्दर्शयितुमाह-'एयं ॥ १ सुविहिताः ततः धावकराक्षसात् मुझेयम् ॥ १३ ॥ आतभयोद्विमस्तदा स नित्यमुद्युक्तो जातः । कोविदमतिय समये राज्ञा क्षमितः पश्चात् ॥ १४ ॥ द्रव्यालातादर्शी आत्मानं सक्या निवर्तयति । अहितारम्भात् सदा यथा शिष्यो धर्मघोषस्य ॥ १५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy