SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAWARA तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति । परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः, एते च बादरतेजस्कायपर्याप्तकेभ्योऽसङ्ख्यगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असङ्खचेयगुणाः, तथा कालतः प्रत्युत्समत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा चागमः-“पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया?, गोयमा! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उकोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स" । उद्वर्त्तनोपपातौ गाथाशकलेनाभिदधाति-निष्क्रमणम्-उद्वर्त्तनं प्रवेशःउपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेवेति प्रतरस्यासङ्ख्येयभागप्रदेशपरिमाणा एवेत्यर्थः ॥ साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाहनिक्खमपवेसकालो समयाई इत्थ आवलीभागो। अंतोमुहुत्तविरहो उदहिसहस्साहिए दोन्नि ॥१५९॥ दारं॥ | जघन्येन अविरहिता संतता बसेषु उत्सत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसवधेयभागमानं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्डेन-अविरहः सात| त्येनावस्थानम् , एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषूत्पद्यते, प्रकर्षणाधिकं सागरोपमसहस्रद्वयं च त्रसभावेनावतिष्ठते सन्ततमिति ॥ उक्तं प्रमाणद्वारं, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाह १प्रत्युत्पन्नासकायिकाः कियता कालेन निर्लेपाः स्युः १, गौतम ! जघन्यपदे सागरोपमशतसहस्रपृथक्त्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रपृथक्त्वेन ।
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy