SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥६८॥ दसणनाणचरित्ते चरियाचरिए अदाणलाभे अ। उवभोगभोगवीरिय इंदियविसए य लद्धी य ॥१५६ ॥ | उवओगजोगअज्झवसाणे वीसुं च लद्धि ओदइया(णं उदया)। अट्ठविहोदय लेसा सन्नुसासे कसाए अ १५७ 'दर्शन' सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यं, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाःउद्देशकः ६ ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रं, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणां, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्धाणरसनर्देशनाख्याः दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तथोपयोगः-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाकायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग्-पृथग् लब्धीनामुदया:प्रादुर्भावाः क्षीरमध्वानवादयः, ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदया, लेश्या:-कृष्णादिभेदा अशुभाः शुभाश्च कषाययोगपरिणामविशेषसमुत्थाः, संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवा दशभेदा:-अनन्तरोकाश्चतस्रः क्रोधाद्याश्च चतम्रस्तथौघसंज्ञा लोकसंज्ञा च, उच्छासनिःश्वासौ प्राणापानौ, कषायाः कषः-संसारस्तस्यायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदात् षोडशविधाः। एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवंविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थ गाथामाह Hi॥६८॥ लक्षणमेवं चेव उ पयरस्स असंखभागमित्ता उ। निक्खमणे य पदेसे एगाईयावि एमेव ॥ १५८॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy