________________
तस्यां च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ वर्त्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिताः जीवाः, पश्चिमार्जेन गाथाया उपन्यस्तदृष्टान्तेन सह साम्यं प्रतिपादितं तथेति शब्दोपादानादिति । अस्मिन्नेवार्थे दृष्टान्तान्तरमाह
जह वा तिलसकुलिया बहुएहिं तिलेहिं मेलिया संती । पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥ १३२ ॥ यथा वा तिलशष्कुलिका - तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ॥ साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह - नाणाविहसंठाणा दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥ १३३ ॥ नानाविधं - भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठि तान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ॥ साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह
पन्तेया पज्जन्ता सेढीऍ असंखभागमित्ता ते । लोगासंखप्पज्जत्तगाण साहारणाणता ॥ १३४ ॥ प्रत्येकतरुजीवाः पर्याप्तकाः संवर्त्तितचतुरस्रीकृतलोकश्रेण्यसंख्येयभागवकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुन