SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अग्निसमारम्भः ग्रन्थः-कर्महेतुत्वाद् एष एव मोह एष एवं मार एष एव नरकस्तद्धेतुत्वादिति भावः, इत्येवमर्थ च गृद्धो लोको यत्करोति तद्दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्रं समारभते तच्चारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति ॥ कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह से बेमि-संति पाणा पुढवीनिस्सिया तणणिस्सिया पत्तणिस्सिया क़ट्टनिस्सिया गोमयणिस्सिया कयवरणिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति (सू० ३७) | तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्निकायसमारम्भेण भवतीति । यथाप्रतिज्ञातार्थं दर्शयति-'सन्ति' विद्यन्ते 'प्राणा' जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूकवृश्चिककर्कटकादयः, तथा वृक्षगुल्मलतावितानादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिश्रिता-घुणोदेहिकापिपीलिकाऽण्डादयः, गोमयनिश्रिताः-कुन्थुपनकादयः, कचवरः-पत्रतृणधूलिसमुदायस्तनिश्रिताः मयनिश्रिताः कुन्या तृणपत्रनिश्रिता वा कृमिकुन्थुपिपीलिान्त
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy