SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १२२ ॥ 'एतैः' दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् 'हिंसन्ती'ति सङ्घट्टनपरितापनापद्रावणानि कुर्वन्ति 'सातं' सुखं तदात्मनोऽन्विष्यन्तः 'परस्य' वादराग्निकायस्य दुःखम् 'उदीरयन्ति' उत्पादयन्तीति ॥ साम्प्रतं शस्त्रद्वारं तच्च द्रव्यभावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । बायरतेडक्काए एयं तु समासओ सत्थं ॥ १२३ ॥ 'पृथिवी' धूलि : अपकायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन शस्त्रमिति ॥ विभागतो द्रव्यशस्त्रमाह किंची सकायसत्थं किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ १२४ ॥ किञ्चिच्छत्रं स्वकाय एव-अग्निकाय एवं अनिकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति, किश्चिच्च परकायशस्त्रम्उदकादि, उभयशस्त्रं पुनः - तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्नेः तुराब्दो भावशस्त्रापेक्षया विशेषणार्थः, 'एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति-भावे शस्त्रम् असंयमो - दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्निर्युक्तिकृदाह— सेसाई दाराई ताई जाई हवंति पुढवीए । एवं तेउद्देसे निज्बुत्ती कित्तिया एसा ॥ १२५ ॥ उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि ' एवम्' उक्तप्रकारेण तेजस्कायाभिधानोद्देशके %%%%%* २
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy