SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 562% श्रीआचारावृत्तिः (शी०) ॥५०॥ अध्ययनं १ उद्देशकः४ शरीरस्थत्वात् , खद्योतकदेहपरिणामवत्। तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात् , ज्वरोष्मवत्, न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात् , पुरुषवत् , एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ॥ उक्तं लक्षणद्वार, तदनन्तरं परिमाणद्वारमाहI जे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिण्णिवि रासी वीसुं लोगा असंखिज्जा ॥१२०॥ । ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्खयेयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्खयेयगुणहीनाः, शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु वादरपृथिवीकायापर्याप्तकेभ्यो बादराग्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाह दहणे पयावण पगासणे य सेए य भत्तकरणे सेये य । बायरतेउक्काए उवभोगगुणा मणुस्साणं ॥१२१॥ दहनं-शरीराद्यवयवस्य वाताद्यपनयनार्थ, प्रकृष्टं तापनं प्रतापनं-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां वादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह ॥५०॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy