________________
पुढो सत्थेहिं विउद्दन्ति (सू० २८) ___ 'पृथग्' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रैस्ते अनगारायमाणाः 'विउट्टन्ति'त्ति अप्कायजीवान् जीवनाच्यावर्त्त-II यन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुदृन्ति-छिन्दन्तीत्यर्थः, कुट्टेर्द्धातोः छेदनार्थत्वात् ॥ अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह
एत्थऽवि तेसिं नो निकरणाए (सू० २९) 'एतस्मिन्नपि' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए'त्ति एवंरूपस्तेषामयमागमो यद्वलादप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् 'नो निकरणाए'त्ति नो निश्चयं कर्तुं समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय नालमिति, अनोच्यते, त एवं प्रष्टव्याः-कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामपकायारम्भः, त आहुः-प्रतिवि|शिष्ठानुपूर्वीविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा, ततश्चैवमभ्युपगते यो येन प्रतिपन्न
आप्तः स निराकर्त्तव्यः, अनाप्तोऽसौ अप्कायजीवापरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव, जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्मचोदनायामप्रमाणम्, अनाप्तप्रणीतत्वाद् , रथ्यापुरुषवाक्यवत्, अथ नित्यो|ऽकर्तृकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपाद, यतः शक्यते वक्तुं-भवदभ्युपगतः समयः सकर्तृको वर्णपदवा-15