________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४७ ॥
ततश्च कथमिव नादत्तादानं स्यात् ?, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्ध गोदानादिव्यवहार त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्धः तद्धि देयं यदुःखितं स्वयं न भवति दासीबलीवर्दादिवत्, न चान्येषां दुःखोत्पत्तेः कारणं हलखङ्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च - " यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ॥ १ ॥” इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुराह -
कप्पइ णे कप्पइ पाउं, अदुवा विभूसाए ( २७ सू० )
अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेना निषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं 'पातुम्' अभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि - आजीविक भस्मस्नाय्यादयो वदन्ति - पातुमस्माकं कल्पते न स्नातुं वारिणा, शा| क्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा - करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्य किं कुर्वन्तीत्याह -
अध्ययनं १
उद्देशकः ३
॥ ४७ ॥