SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 'प्रणताः' प्रह्राः 'वीराः' परीषहोपसर्गकपायसेनाविजयात् वीथिः पन्थाः महांश्चासौ वीथिश्च महावीथि: - सम्यग् - दर्शनादिरूपो मोक्षमार्गों जिनेन्द्रचन्द्रादिभिः सत्पुरुषः प्रहतः, तं प्रति प्रह्लाः- वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चो - तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तज्जनितमार्गविस्रम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ॥ उपदेशान्तरमाह-लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽपूकायजीवविषये, असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह लोगं च आणाए अभिसमेच्चा अकुओभयं ( सू० २१ ) अत्राधिकृतत्वादप्काय लोको लोकशब्देनाभिधीयते तमकायलोकं चशब्दादन्यांश्च पदार्थान् 'आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा यथाऽष्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतोः केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः - संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा 'अकुतोभयः' अपूकायलोको, यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाज्ञयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ॥ अपूकायलोकमाज्ञया अभिसमेत्य यत्कर्त्तव्यं तदाह से बेमि व सयं लोगं अब्भाइक्खिजा णेव अत्ताणं अब्भाइक्खिज्जा, जे लोयं अ
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy