________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥४३॥
अध्ययनं १ उद्देशकः३
SASSASSASSASAKAX
भजते, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए॥१॥" तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदिति, कथं पुनः कृत्वा श्रद्धामनुपालयेदित्याह-विजहे'त्यादि, 'विहाय' परित्यज्य 'विस्रोतसिकां'शङ्कां, सा च द्विधा-सर्वशङ्का देशशङ्का च, तत्र सर्वशङ्का किमस्ति आहतो मार्गों नवेति, देशशङ्का तु किं विद्यन्ते अप्कायादयो जीवाः?, विशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेका विहाय सम्पूर्णाननगारगुणान् पालयेत, यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्ष प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा 'विजहित्ता पुव्वसंजोगं' पूर्वसंयोगः-मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं 'विहाय' त्यक्त्वा 'श्रद्धामनुपालयेदिति मीलनीयं ॥ तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनु श्रद्धानुपालनं काय' स एवाभिधीयते-न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह
पणया वीरा महावीहिं (सू० २०) १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् । तथा तथा प्रहादते मुनिर्नवनवसंवेग़श्रद्धया ॥१॥ २मार्ग उत नेति प्र.
॥४३॥