________________
‘अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविषत्यं द्रष्टव्यं, चशब्दाल्लक्षणविषयं च, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति ॥ तत्र विधानं |-प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाह- . दुविहा उ आउजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥१०७॥ । सष्टा ॥ तत्र पश्च बादरविधानानि दर्शयितुमाहसुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । बायर आउविहाणा पंचविहा वणिया एए ॥१०८॥ . 'शुद्धोदकं' तडागसमुद्रनदीहदावटादिगतमवश्यायादिरहितमिति, 'अवश्यायो' रजन्यां यस्त्रेहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पर्काजलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताकुरमस्तकस्थितो जलबिन्दुभूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिताः। ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा-करकशीतोष्णक्षारक्षत्रकटुम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः ?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्त:पाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः?, उच्यते, स्त्रीबालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थ पाठः?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्ष, तत्र युक्तः सकलभेदोपन्यासः स्याद्यनुग्रहाय, निर्युक्तयस्तु सूत्रार्थ पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः। त एते बादराप्कायाः