________________
श्रीआचा- वन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह-'त'मित्यादि, तं पृथिवीका- अध्ययनं १ राङ्गवृत्तिः यसमारम्भे बन्धं परिज्ञाय असमारम्भे वाऽबन्धमिति 'मेधावी' कुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं (शी०) द्रव्यभावभिन्नं समारभेत, नापि तद्विषयोऽन्यैः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् सम-1
त उद्देशकः३ नुजानीयात् इति, एवं मनोवाकायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षराह-'यस्य' विदितपृथिवीजीववेदनास्वरूपस्य, 'एते' पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं कर्म-सावद्यानुष्ठानमष्टप्रकारं वा कर्म येन स परिज्ञा
तकर्मा, नापरः शाक्यादिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय उद्देशकः समाप्तः॥ al गतः पृथिव्युद्देशकः, साम्प्रतमप्कायोद्देशकः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पृथिवीकायk|जीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति,
अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपे अप्कायोद्देशकः, तत्र पृथिवीकायजीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वाराण्युक्तानि, अप्कायेऽपि तान्येव समानतयाऽतिदेष्टुकामः|3|| कानिचिद्विशेषाभिधित्सयोद्धर्तुकामश्च नियुक्तिकारो गाथामाह
॥ ३९॥ आउस्सवि दाराई ताई जाइं हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १०६ ॥