SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तीति ॥ एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयमेयोपात्तत्वेन तव्याख्यानस्य न्याय्यत्वात्, तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे'त्यादि ॥ अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थमाह केई सयं वहंती केई अन्नेहिँ उ वहाविती । केई अणुमन्नंती पुढविकायं वहेमाणा ॥१०१॥ - सष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाहजो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए। अनियाए अनियाए दिस्से य तहा अदिस्से य॥१.२॥ __यः पृथ्वीकायं 'समारभते' व्यापादयति सः 'अन्यानपि' अप्कायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बरवटफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाई'त्ति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' दर्दुरादीन् 'अदृश्यान्' पनकादीन् 'समारभते' व्यापादयतीत्यर्थः॥ एतदेव स्पष्टतरमाह पुढविं समारभंता हणंति तन्निसिए य बहुजीवे । सुहुमे य बायरे य पज्जत्ते या अपजत्ते॥१०३ ॥ . स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाहएवं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं। तिविहेण सव्वकालं मणेण वायाए कारणं ॥ १०४॥ .. 'एवमि'त्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवी 940GAOCRASACCAC A
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy