________________
श्रीदे० चैत्यश्री
धर्म० संघा चारविधौ ।। २८ ।।
तथा चागम: - " अहिए कुणालकरणो हीणे विजाहराइदिट्ठता । बालाउराण भोयण भेसजविवज्जओ उभए || १ ||" अहीनाद्यक्षरत्वं च वर्णसंख्यापरिज्ञाने सति भवतीत्यष्टमं वर्णसंख्याद्वारं, 'वण्णा सोल सय सीयाल'त्ति, वर्णाः- अक्षराणि, ते च सामान्यतोऽत्र | चैत्यवंदनाधिकारे नमस्कारक्षमाश्रमणादिषु नवसु स्थानेष्वपुनरुक्ता ध्रुवभणनीयाश्च षोडश शतानि सप्तचत्वारिंशदधिकानि ज्ञातव्यानि, तथाहि - अडसट्ठि६८ अठ्ठवीसा२८ नवनउअसयं च १९९ दुसय सगनउया २९७ । दोगुणतीस १२९ दुसट्टा २६० | दुसोल २१६ अडनउयसय १९८ दुवन्नसयं १५२ ।। १ ।। इय नवकार १ खमासमण२ इरिय ३ सक्कत्थयाइदण्डेसु ८ । पणिहाणेसु य ९ अदुरुत्त वण्णा सोलसय सीआला ||२|| यदिह नमस्कारादि वर्णपरिसंख्यानं तत्तदादिमूलत्वात् सर्वधर्म्मस्येति ज्ञापनार्थं, एवं पदादिष्वपि वाच्यं, वर्णैश्च पदानि स्युरिति वर्णद्वारानंतरं नवमं पदद्वारं 'इगसीई' इत्यादि, एकाशीत्यधिकं शतं पदान्यत्रौघतो | नमस्कारादिस्थानसप्तके ज्ञातव्यानि, तुर्विशेषणे, विशेषश्चायम् - यद्यपि क्षमाश्रमण जे य अइयासिद्धेत्यादिगतानि अतिरिक्तान्यपि पदान्यत्र संति तथापि पूर्वबहुश्रुतः संपदादिकं किमपि कारणांतरमधिकृत्यैतावन्त्येव पदानि स्वस्वभाष्यादिषूक्तानीति तन्मार्गा| नुगामितया अस्माभिरप्यत्रैतावत्येव तान्युक्तानि, नाधिकानीति, तथा चोक्तं लघुभाष्ये- 'नव बत्तीस तित्तीसा तिचच अडवीस | सोल बीस पया । मंगलइरियासक्कत्थयाइसु इगसीइ सयं ॥ १ ॥ एवमन्यत्रापि न्यूनाधिकत्वे कारणं वाच्यं ९, द्वित्रादिमिश्र पदैः संपदो भवतीति दशमं संपदद्वारं - 'सगनउइ संपयाउ' त्ति, सप्तनवतिः संपदः - अर्धविश्रामस्थानानि सांगत्येन पद्यते - परिच्छिद्यतेऽर्थो याभिरिति व्युत्पत्तेः संगतार्थपदपद्धतय इत्यर्थः, ताचैवं सप्तसु स्थानेपूच्यते - 'अट्ठट्ठ नवद्वय अट्ठवीस सोलस य वीस वीसामा । | मंगलइरियावकत्थयाइ दंडे सगनउई ||१|| तुशब्दो नामस्तवादिषु प्रायो विशेषार्थपरिच्छेदाभावेऽपि संगतपदत्वेन 'पायसमा
चैत्यवन्दनाद्वाराणि
॥ २८ ॥