________________
शेष
मोत्या
रिक्षातुः शुभभाव
श्रीदे. मुशब्दविशेपिततया सूत्रकृत् प्रयोजनमपि दर्शयति, तद्विना सर्वस्यापि विवेकिनः सर्वत्राऽप्यप्रवृत्तेः, न्यगादि च-"प्रयोजनमनु-DI प्रस्तावनाचैत्यश्री
द्दिश्य, न मन्दोऽपि प्रवर्तते। एवमेव प्रवृत्तिश्चेचैतन्ये नास्य किं भवेत् ॥ १॥" तच्च शास्त्रकर्तृश्रोत्रोरनंतरपरंपरभेदाचित्यं, तत्र धर्म० संघाचारविधौ ।
शास्त्रकर्तुरनंतरं प्रयोजनं सत्चानुग्रहः,संक्षिप्तशास्त्रस्य सुखेन पठनपाठनादिना विस्तरशास्त्रपठनाद्यसमर्थसंक्षिप्तरुचिसत्त्वानामत्र प्रवर्त
नात् , यत उच्यते-"सुयसायरो अपारो आउं थोवं जिआ य दुम्मेहा। तं किंपि सिक्वियवं जं कजकरं च थोवं च ॥१४॥
॥१॥" परंपरप्रयोजनं त्वपवर्गप्राप्तिः,धर्मोपदेशदानस्य हि मोक्षफलत्वात् ,तथा चोक्तम्-"सर्वज्ञोक्तोपदेशेन, यः सचानामनुग्रहम् । करोति दुःखतप्तानां, स प्रामोत्यचिराच्छिवम् ॥१॥" श्रोतुश्चानंतरप्रयोजनं चैत्यवंदनाद्याचारविधिपरिज्ञानं, परंपरं तु तस्याप्यपवर्गप्राप्तिः, सम्यक्त्य वंदनाद्याचारविधिपरिज्ञातुः शुभभावभवनतो यथाविधि तत् समाचरतश्च सर्वकर्मक्षयेण निर्वाणनिबंधनत्वाद् , आह च-"चिइवंदणाइ सम्मं सोउं लहुकम्मयाइ काऊणं । निविअअट्टकम्मा सिद्धि पत्ता अणंतजिया ॥१॥" कथं वक्ष्यामीत्याह-बहुवृत्तिभाष्यचूर्णिश्रुतानुसारेण' अत्र बहुशब्दः प्रत्येक संबध्यते,ततश्च बन्यो वृत्तयः-टीका बहुसंस्कृताक्षरनिबद्धसूत्रादिविवरणरूपा ललितविस्तराद्याःबहनि च भाष्याणि-गाथानिवद्धसूत्रव्याख्यानरूपाणि एतवृहद्भाष्यव्यवहारभाष्यादीनि तथाच बहवश्चूर्णयः-प्रायः प्राकृताक्षरनिबद्धविवरणविशेपा एव एतत्पाक्षिकावश्यकादिसंबंधिन्यः, तथा श्रुतंसूत्रं गणधरादिकृतं, पंचसाक्षिकधर्मप्रतिपादनपरपाक्षिकसूत्रादि, नियुक्तयस्तु चतुर्दशपूर्वधरकृतत्वेन सूत्रत्वात् श्रुतग्रहणेन गृहीताः, | उक्तंच-"मुत्तं गणहररइयं तहेव पत्तेयबुद्धरइयं च । सुअकेवलिणा रइयं अमिन्नदमपुविणा रइयं ।। १।।" श्रुतकेवलिनेति-चतुर्दशपूर्विणा, अभिन्नेति-परिपूर्णाः, यद्वा गाथानिवद्धमूत्रव्याख्यानरूपत्वात् नियुक्तीनां भाष्यग्रहणाद् ग्रहः, तेपामनुसारेण-तदुक्ता- | ॥१४॥
निविअअहम
Hanuman