________________
श्रीदे० चैत्यश्रीधर्म० संघा चारविधौ
॥ १३ ॥
जिणाइपणिहाणपत्त कलाणो । इय दसमभवे संतिस्स गणहरो होउमिह सिद्धो ॥ ११२ ॥ श्रुत्वेत्यहो श्रीविजयस्य धर्माद्विनोपशान्त्या बहुमंगलानि । कल्याणकानां जिनवंदनादौ, मंगल्यभूते कुरुत प्रयत्नम् ॥ ११३ ॥ इति श्रीविजयनृपतिकथा ॥
इत्थं च कृतमङ्गलोपचारः शास्त्रकारः कृत्वाप्रध्ययस्यो तरक्रियासव्यपेक्षत्वात्तामाह-वक्ष्यामि भणिष्यामि, कं- 'चैत्यवंदनादिसुविचारं,' तत्र चित्तं प्रस्तावात् प्रशस्तं मनस्तद्भावः चैत्यं तद्धेतुत्वात् जिनबिंचान्यपि चैत्यानि, कारणे कार्योंपचारात् तेषां वंदनापूर्वोक्तशब्दार्था चैत्यवंदना, उक्तं च- "चित्तं मणो पसत्थं तन्भावो चेइयंति तञ्जणगं । जिणपडिमाओ तासिं वंदणममिवायणं तिविहं ॥१॥" यहा चितेः - लेप्यादिचयनस्य भावः कर्म्म वा चैत्यं तच्च संज्ञादिशब्दत्वाद् देवताप्रतिबिंबे प्रसिद्धं, चूर्णौ तु 'चिती संज्ञाने काष्टकर्मादिषु प्रतिकृतिं दृष्ट्रा संज्ञानमुत्पद्यते यथाऽर्हदादिप्रतिमैपेत्युक्तं, शेषं प्राग्वत्, ननु भावार्हदादीनामप्यत्र वंदना क्रियते तत्कथं चैत्यवंदनेत्युच्यते ?, सत्यं प्रायेणास्याचैत्याग्रे करणात् तथाच वृहद् भाष्यं - "भावजिणप्पमुहाणवि सधेसिवि जइवि वंदणा तहवि । ठवणाजिणाण पुरओ कीरह चिह्नवंदना तेण ॥ १ ॥ १२ ॥ जिणबिंबाभावे पुण ठवणागुरुमक्खियावि कीरंती । चिड़वंदण च्चिय इमा तत्थवि पर मिट्टठवणाउ || २ || १३ || अहवा जत्थ तत्थ व पुरओ परिकप्पिऊण जिणबिंबं । कीरइ बुहेहिं एसा नेया चिडवंदणा तम्हा || ३ || १४ || " आदिशब्दात् गुरुवंदनाप्रत्याख्यानादिपरिग्रहः, तेषां सुविचारः, तत्र सुष्ठु - शोभनो बहुशास्त्रसारार्थसंग्रहतया तन्निष्पन्नतया च स्वल्पप्रज्ञानामपि सुखेन पठनावबोधादिनिबंधनत्वात् सकलसंघस्य प्रतिदिनावश्यकरणीयतया सदोपयोगित्वाश्च विचारो विधिस्वरूपादिकथनं चैत्यवंदनादि सुविचारः, एतेन च प्रेक्षावत्प्रवृभ्यर्थममिधेयनिर्देशः कृतः, एतदुक्तौ हि शास्त्रश्रवणादिप्रवृत्तेः उक्तं च- "श्रुत्वा - sarai शास्त्रादौ पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तते, तज्जिज्ञामादिनोदिताः ॥ १॥" अनेनैवात्र बहुशास्त्रसारार्थसंग्रह ज्ञापक
प्रस्तावनाशेषं
॥ १३ ॥