________________
श्रीदे चैत्य० श्रीधर्म० संघा चारविधौ
॥३९०॥
साक्षिकत्वासिद्धेः, चूर्णिकारेण तथैव व्याख्यातत्वान्निश्रीयते, तच्चैतद् देवसक्खियंतिसूत्रप्रामाण्यात्, एवमेव पूर्वापरविरोधाभावाद्, उक्तं च सूचकत्वं ललितविस्तरायामप्यस्य, तथा चोक्तं "व्याख्यातं सिद्धेभ्यः इत्यादि सूत्र” मिति, तथा इदमेव वचनं ज्ञापकमिति, वचनं सूत्रं च पर्यायौ, एवं च सूत्रसिद्धा अप्येते नव अधिकारा इति सिद्धं, ननु च ज्ञातं तावत् प्रथमतीयचतुर्थ पंचमषष्टसप्तमाष्टमनवमद्वादशेति नवाधिकारा एवं सिद्धांताद्यनुसारेण भण्यंते, परं भवद्भिर अहिगारा इति प्राक् प्रतिज्ञातं ततः शेषाः | कुतः प्रामाण्यात् पठयंते इत्याशंक्याह- 'तिन्नि सुपे' त्यादि, त्रयोऽधिकाराः पुनः 'सुर्य'त्ति 'ते लुग्वे 'ति पूर्वपदस्थहुदलीयात् ये बहुश्रुतास्तेषां पारंपर्येण-गीतार्थपूर्वाचार्य संप्रदायेन भण्यंते, पारंपर्यागतस्यार्थस्य स्वमत्या निषेधयितुमशक्यत्वात् तत्रिषेदे नि वमार्गानुयायितापतेः उक्तं च द्वितीयांगनिर्युक्तौ - आयरियपरंपरएण आगयं जो उ अप्पबुद्धीए । कोवेह छेयवाई जमालिनासं स नासिहि ॥ १ ॥ त्ति, अशठाचारित्वेन च आज्ञारूपत्वात्, तथापि निषेधे जिनाशातनाप्रसंगात्, तथा च कल्पभाय- आयरणाविहु आणा अविरुद्धा चैव होइ आणति । इहरा तित्थयरासायणचि तलक्खणं चेय ॥ १ ॥ मित्यादि, अथवा सुयपरंपरयति यथा श्रुतस्य व्याख्यानं निर्युक्तिस्ततोऽपि भाग्यचूर्यादयः एवं श्रुतपारंपर्येण, अयमर्थः यथा सूत्रे चैत्यवंदनातपः श्रुतस्तवं यावदुक्तं, निर्युक्तौ तु सिद्धाण थुई य किकम्मति श्रुतस्तवस्योपरि सिद्धस्तुतिर्भणिता, चूण्ण तु सिद्धस्तुतेरप्युपरि श्रीवीरस्तुतिद्वयं । व्याख्याय भणितं - 'जहा एए तिनि सिलोगा मन्नंति, सेसा जहिच्छाए' ति, ततश्च यथा निर्युक्त्यादिव्याख्याताः सिद्धादिगाथास्तिस्रो सण्यंते तथा उज्जयंताद्यपि भण्यते, चूर्णिकारेणानिषिद्धत्वादिच्छाद्वारेणानुज्ञातत्वाच्च, तथाहि सेसति, अनेन उज्जयंतादिगाथा| स्तिस्रो प्रतिपादिताः, असतो भणनाभावात्, जहिच्छाए इत्यनेन तु वंदनकरणेच्छावतां उज्जितादिगाथाभणने स्वाभिमतत्वं द
सुरस्मरणसिद्धिः
॥३९० ॥