________________
श्रीदे० चैत्य० श्री. धर्म० संघा चारविधौ
॥३८९||
तद्, व्याख्यातं च वेयावच्चगराम मित्यादिमूत्रं, तथा चोक्तं-" एवमेतत्पठित्वेत्यादि यावत्पठंति वेयावच्चगराणमित्यादि", ततश्च स्थि| तमेतत्-यदुत वैयावच्चगराणमित्यप्यधिकारोऽवश्यं भणनीय एव, अन्यथा व्याख्यानासंभवात्, यदि पुनरेषोऽपि वैयावृत्यकरा| घिकार उज्जयंताद्यधिकारवत् कैश्चिद् भणनीयतया यादृच्छिकः स्यात्तदा उज्जितसेलेत्यादिगाथावदयमपि न व्याख्यायेत, व्याख्यातश्च नियम भणनीयसिद्धादिगाथाभिः सहायमनुविद्धसंबंधेनेत्यतोऽत्रुटितसंबंधायातत्वात् सिद्धाद्यधिकारवदनुस्यूत एव मणनीयः, अथ न प्रमाणं तत्र व्याख्यातमूत्रमिति चेत् एवं तर्हि हंत सकलचैत्यवंदनाक्रमाभावप्रसंगः, तत्रैवास्या एवं क्रमस्य दर्शित| त्वात्, तदन्यत्र तथा तद्व्याख्यानाभावात्, व्याख्यानेऽप्येतदनुसारित्वात् तस्य, पश्चात्कालप्रभवत्वात्, नव्यकरणस्य तु सुंदरस्यापि भवनिबंधनत्वात्, तत्रोक्तस्य तूपदेशायाततया स्वच्छंदकल्पितताऽभावादिति परिभावनीयं वह्नत्र माध्यस्थ्यमनसा, विमर्शनीयं सूक्ष्मधिया, विचिंतनीयं सिद्धांतरहस्यं, पर्युपासनीयाः श्रुतवृद्धाः, प्रवर्तितव्यं असदाग्रहविरहेण, यतितव्यं निजशक्यानुकूल्यमिति । एवं द्वितीयदशमैकादशवर्जिताः शेषाः प्रथमाद्या द्वादशपर्यंता नव अधिकारा उपदेशायातललितविस्तराव्याख्यातसूत्रसिद्धा इति सिद्धं, आदिरन्दात् पाक्षिकसूत्रचूर्ण्यादिग्रहः, तत्र सूत्रं - 'देवसक्लिय' चि, अत्र चूणिः - विरइपडिवत्तिकाले चिइवंदणाइणोवयारेण अवस्सं जहासंनिहिया देवया संनिहाणंमि भवन्ति, अओ देवसक्खियं भणियति, अयमंत्र भावार्थ:- तावद् गणधरैदयर्थं पंचसाक्षिकं धम्र्मानुष्ठानं प्रतिपादितं, लोकेऽपि व्यवहारदाढर्थस्य तथा दर्शनात्, तत्र देवा अपि साक्षिण उक्ताः, ते च चैत्यवंदनाद्युपचारेणासनीभूता साक्षितां प्रतिपद्यंते, चैत्यवंदनामध्ये चं तेपामुपचारः कायोत्सर्गस्तुतिदानादिः क्रियते, अन्यस्य तत्रासंभवादश्रुतत्वाच्च ततश्चैवमायातं - यथा चैत्यवंदनामध्ये देवकायोत्सर्गादि करणीयमेव, अन्यथा तत्रान्यत्तदुपचाराभावे देव
सुरस्मरणसिद्धिः
॥ ३८९ ॥