________________
श्रीदे० चैत्य०श्रीधर्म० संवाचारविधौ
॥३७९॥
द्रव्याईतो येऽष्टमदाप्रातिहार्यादिकां तीर्थकुलक्ष्मीं प्राप्य सिद्धाः ये च तस्मिन्नन्यस्मिन् वा भवे तां प्राप्स्यति, न च तदानीं प्राप्तवंतस्तान्, अर्हस्वद्रव्यान् जिनजीवानित्यर्थः, उक्तं च-- "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्वज्ञैः | सचेतनाचेतनं कथितं ||२|| तथा 'एकचैत्यस्थापना जिनान्' यत्र देवगृहादौ चैत्यवंदनं कर्तुमारख्धं तत्र स्थापितानि यानि जिनबिंबानि तानीत्यर्थः तृतीये 'अरिहंत चेड्याण' मितिदंडकरूपे ३, तथा चतुर्थे चतुर्विंशतिस्तवात्मके नामजिनान् जिननामानि, अस्यामवसर्पिण्यां भरतक्षेत्रवर्त्तितयाऽऽसन्नत्वादिनोपकारित्वाच्चतुर्विंशतिमपि जिनान्नामोत्कीर्तनेन स्तोमीत्यर्थः ४ ॥ ३२ ॥ त्रिभुवने ऊर्ध्वास्तिर्यग्लोके स्थापना जिनान् शाश्वताशाश्वतश्चैत्य स्थापितार्हत् सिद्धप्रतिमा रूपान् पंचमके 'सबलोए अरिहंतचेइयाण' मितिकायोत्सर्गदंडकलक्षणेऽधिकारे वंदे इति योज्यं, अत्र चार्हत्सिद्धप्रतिमारूपानिति प्रकारांतरसूचकः पुनः शब्द इत्यायातं, भणितं चावश्यकचूर्णिकारेण सिद्धप्रतिमानामपि वंदनपूजनादि, तथा च प्रतिक्रमणाध्ययने 'सव्वलोए अरिहंतचेयाण' मिति दंडकचूर्णिः - जे सबलोए सिद्धाई अरिहंता चेइयाणि य तेसिं चैव प्रतिकृतिलक्षणानि, चिती संज्ञाने, संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रकृतिं दृष्ट्वा जहा अरिहंतपडिमा एसत्ति, सिद्धादिप्रतिमेत्यर्थः, अन्ने भणति -- अरिहंता तित्थयरा तेसिं चेइयाणि अरिहंतचेइयाणि, अर्हत्प्रतिमेत्यर्थः अत्र च अन्ने भणति अरहंता तित्थयरी इत्यादि भणता चूर्णिकृता पूर्वव्याख्याने सिद्धप्रतिमाः पृथक् स्पष्टं निष्टंकिताः, अन्यथा द्वितीयव्याख्यानं निष्फलं स्यात्, एवं च सिद्धप्रतिमासिद्धौ तासां वंदनपूजनाद्यपि करणीयपथायातं, तत्प्रत्ययं च कायोत्सर्गाद्यपि, उक्तं चैतदावश्यकचूर्णी, तथाहि - 'पूज्यत्वात्तेषां पूजनार्थं कायोत्सर्गं करोमि श्रद्धादिभिर्वर्द्धमानैः, सद्गुणमुत्कीर्तनपूर्वकं कायोत्सर्गस्यानेन पूजनं करोमीत्यर्थः, जहा कोइ गंधचूर्णवाममलाइएहिं समभ्यर्चनं करोतीति । एवं
अधिकारविषयः
॥३७९ ॥