________________
कथा
श्रीदे. चैत्य श्रीधर्म० संघाचारविधौ ॥३७४॥
दनद्वारदेशेऽगात् ॥३४॥ दृष्ट्वा मनोरमा तं दध्यौ खलु मम पतिः सदाचारः। दयिताचारश्र नृपो विधिर्धवं तदुराचारः ॥ ३५॥
मनोरमाइदमप्यसदथवा ध्रुवमिदमस्य महात्मनः समुपतस्थे। प्रागशुभकर्म कर्मणः फलमत्रास्ति नहि प्रतीकारः॥३६॥ एष तथाऽपि भविप्यति निश्चित्येति प्रविश्य सदनांतः । अभ्यर्च्य जिनेंद्रार्चाः कृत्वा व्युत्सर्गमित्यूचे ॥३७॥ सुदृशां समाधिकर्व्यः प्रवचनभक्ताः सुशांतिकरणपराः । शाशनदेन्यो मद्भर्तुरस्ति नहि दोपलेशोऽपि ॥३८॥ श्राद्धजनमस्तकमणेः सांनिध्यं यदि करिष्यथास्य लघु । कायोत्सर्गमिममहं तदाधुवं पारयिष्यामि ॥३९॥ एवं व्यवस्थितायां ममान्यथाकारमनशनं भवतु । तलवरनरैरितवं प्राक्षेपि सुदर्शनः शूल्याम् ॥४०॥ शाशनदेव्यनुभावात् सा सपदि स्वर्णकमलतां भेजे । कौक्षेयकप्रहारास्तत्कंठे कुसुममालाऽभूत् ॥४१॥ तं दृष्ट्वा तैर्विमितचकितैनरनाथ एत्य विज्ञप्तः। मंच सुदर्शनपाचे प्रययावधिरुह्य वरकरिणीम् ॥४२॥ तं सरभसमालिंग्यानुतापतप्तः क्षितीश इत्यूचे। श्रेष्ठिनासि विनष्टो दिष्टयाऽऽत्मीयानुभावेन ॥४॥ तावत्पापेन मया कि राज्ञा? त्वं विनाशितोऽसि हहा।संचितसुकृतभराणां जागर्ति मतां परं धर्मः॥४४॥ स्त्रीणां निकृतिगृहागां प्रत्ययतस्त्वां निहंति यो मूढः। अविमृश्यकरः स पापो न परो दधिवाहनाजगति ॥४५॥ किं वाऽहममि किंचित्पापमिदं कारितस्त्वया साधो । यद् बहुधापि हि पृष्टो न किम| प्याख्यस्तदा मह्यम् ॥४६॥ इत्यालपता राज्ञा करिणीमारोप्य मागधैरुच्चैः। व्यावर्ण्यमानशीलः श्रेष्ठी निजमंदिरे निन्ये ॥४७॥ तदनु स्नातविलिप्सो बखालंकारभूषितो भुक्तः। राजा पृष्टो रात्रैर्वृत्तं न्यगदद्यथावृत्तम् ।। ४८ ॥ अभयाऽऽदिष्टा इंतु विमोचिता श्रेष्ठिना नृपं प्रार्छ । उद्वंध्य तथापि मृता पचति हि खलु पापिनां पापम् ॥४९॥ तदनु तनुमतनुपुलकांकुरनिकरां विभ्रता महाभृत्या। इभमारोश श्रेष्ठी राज्ञा तन्मंदिरे प्रैषि ॥५०॥ नंष्टा दुश्चरितभरैकखंडिता पंडिताऽथ कुसुमपुरे । अंगमचस्यौ पार्चे गणिकाया||