________________
श्रीदे
कथा
चैत्यश्री धर्म संघात चारविधी ॥३७॥
न्युरूचे सखि ! रमयसि यद्य विदग्धां त्वाम् । तन्मन्ये साऽप्यूचे लघु रमितमिमं मया विद्धि ॥ १८ ॥ इति ते विवादविवशे क्रीडित्वा निजनिजं गते धाम | अथ पंडितया धात्र्या तद् ज्ञात्वा राक्ष्यदो जगदे ॥ १९ ॥ फणिफणरत्नं लातुं सटाकट हरेः ।। | समुत्खनितुम् । गजपतिरदो ग्रहीतुं वरं प्रतिज्ञा कृता वत्स ! ॥२०॥ परमाईतधौरेयं सुदर्शनं रमयितुं न तु कदाचित् । | अहहह हा ही मुग्धे! तन्मनु बृहदंतरे मूढा ।।२१।। अभयाऽऽह सकृतं मे समर्पयानीय तदनु भलिताऽहम् । तस्यानयनोयायान् | सुबहून् सा चिंतयंत्यस्थात्॥२२॥ साथ निशि चतुर्मास्यां राज्ञी पूजामिपात् समानिन्ये । वेश्मन्यस्खलितवसनच्छन्ना यक्षादिलेप्यार्चाः॥२३॥ पश्चात् शून्यगृहस्थं सुदर्शनं विहितपौषधप्रतिमम् । आजानुलंविभुजयुगमानीय पुरोऽमुचद् देव्याः॥२४॥ कुसुमशरशवरशरमिनहदयया पापविभययाऽभयया । उपसर्गितः स बहुशोऽप्यचलन्न महामनाः शीलात् ।।२५।। अथ वीक्षापना स्वतनुमतनुकोपा विलिख्य नखविशिखैः। पूचक्रे कोऽपि बलात्कारमसौ मयि चरीकत्ति ॥२६॥ श्रुत्वेदं प्राहरिकास्तत्रागुर्वीक्ष्य सुदर्शनं नूनम् । अत्रासंभवमिदमित्युक्त्वा राजे समाचख्युः ॥२७॥ राज्ञाऽभयैव पृष्टा जगदेऽकस्मात् कुतोऽप्ययमिहैत्य । प्रकटितचटुकोटिमा रंतु| मयाचिष्ट पापिष्ठः।।२८।। ऊचे मयैष मैषीरसतीरिव रे सतीरपि हताश !। किं चयंते चणका यथा तथा मूढ ! मरिचानि ॥२९॥ तदनु च बलिनाऽप्यमुना कृतमेतत् पूत्कृतं भयाऽप्युच्चैः । न घटत इह खल्विदमिति पुनः पुनस्तं नृपोऽपृच्छत् ॥ ३०॥ स तु कृपया न किमप्याह नृपतिनाऽचिंति न खलु शुद्धोऽयम् । यल्लक्षणमाद्यमिदं परललनालोलचौराणाम् ॥ ३१ ॥ कोपाटोपाचलवर आदिष्टो विहितवध्यमंडनकम् । खरयानं श्रेष्ठिवरं प्रारेमे भ्रमयितुं नगरे ॥३२॥ कृतशुद्धांतागस्को निहन्यते न्यायचंचुना राज्ञा। श्रेष्ठी सुदर्शनोऽसावित्युचै|पयामास ॥३३॥ ध्रुवमिह न घटत इदमिति पूत्कुर्वति पुरजने इहाकारम् । स भ्रममाणो ह्येवं निजस
३७३॥