________________
श्रीदे० चैत्य० श्री - धर्म० संवाचारविधौ
॥२९५॥
मो। बुच्छिन्नसंसया वा तुं पत्ता जिणसगासं ||३०|| आभट्टा य जिणेणं नामगोएहिं सागयंति इमे । विम्हइया पुण बुत्ता चिरसंसय| पत्थकहणेण ||३१|| जीवे १ कम्मे २ त जीव ३ भूय४ तारिमय'५ बंधमुक्खो य६ । देवा७नेरड्याविय८ पुण्ये ९ परलोय १० निव्वाणे११ ॥३२॥ तत्रैवं तृतीय उक्तः - हे वाउभूइ गोयम ! मनसि तजीवनच्छरीरंति । संमइओ वेयत्थं न याणसी तं इमं जाण ॥ ३३ ॥ स एव जीवस्तदेव शरीरं इति माननात् 'विज्ञानघन एवैतेभ्य' इत्यादि प्रापदर्थः, नवरं न प्रेत्यसंज्ञाऽस्ति न देहातिरिक्त आत्मसंज्ञाऽस्ति अभेदागौरतादिवद् भूतसमुदायमात्रधर्मत्वाच्चैतन्यस्येति वेदार्थक्लप्तेः, संशयश्च 'सत्येन लभ्यस्तपसा द्वेष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादिमुत्रात् देहातिरिक्तात्मप्रतिपादनंपरात् तथारूपोपचाराच्च, तत्र देहे आत्मोपचारो यथा किंचित् पिपीलिकादि सच्चं प्रतीत्य यथा ब्रवीति लोको यथैतं जीवं मा मारयेति शरीरव्यतिरिक्ते च यथा कंचिन् मृतं दृष्ट्वा लोको ब्रवीति - गतः संज्ञी यस्येदं शरीरमिति, तथा वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराण्यपरापराणि, जहाति गृह्णाति च पार्थ! जीवः ॥ १॥ इत्यादेव, अस्त्येतत् सौम्य !, भगवन्नस्त्येतत्, वेदपदानामयं परमार्थ :- विज्ञानघन एवात्मा प्रतिप्रदेशमनंतज्ञानदर्शनपर्यायात्मकत्वात् भूतेभ्यः क्षित्युदकादिभ्यः कथंचिद्भूत्वा घटाद्यर्थाश्रयेण विशेषतो नीलादिविज्ञानोत्पत्तेः अनु विनश्यति, घटादिनाशे तदाश्रितोद्भूतनीलादिविज्ञानोपरमात्, शेषं प्राग्वत् इति, देहेन्द्रियव्यतिरिक्तश्रात्मा तद्विगमेऽपि तदुपलब्धार्थानुसरणात् मया दृष्टं श्रुतं स्पृष्टं, घातं आस्वादितं स्मृतम् । इत्येककर्तृका भावा, भूतचिद्वादिनः कथं ॥१॥ निर्वाधोऽस्ति ततो जीवः स्थित्युत्पत्तिव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता, कर्ता कायप्रमाणकः ॥ २॥ चतुर्थस्त्वेवं भारद्दायवियत्ता ! मनसि पण भूय अस्थि नत्थिति । संसइयो न वियाणसि वेयत्थं तं इमं सुणसु ||३४|| 'स्त्रमोपमं वै सकलमित्येष ब्रह्मविधिरंजसा विज्ञेय'
गणधरवादः
॥२९५॥