SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीदें - त्यश्रीधर्म संघाचारविधौ शिखरभूतानां निशेपातिशेषविभूषितानां भगवता तीर्थकृतां सर्वस्वपरसंपत्संहतिसर्वस्वदेश्याः चत्वारोऽतिशयाः संरचिताः, I मंगलादीनि तथाहि-सर्व विदंतीति सार्वा इति व्याख्यानेन भगवतां त्रिकालवेदिनां ज्ञानातिशयः समुपलक्ष्यते, न हि निखिलाकल्पितमावकलापोपकलनकुशलविमलकेवलालोकविकलतया सर्ववेदित्वं सिद्धिसौधमध्यमध्यास्ते १॥ अनेनैव च श्री वीतरागाणामपायापगमातिशयोऽपि प्रतिपाद्यते, तदविनामावित्वात् केवलभावस्य, तथाहि-सर्वापायभूता हि रागादयः, अविषड्यशारीरमानसाधनेक| दुःखलक्षोपनिपातहेतुत्वात् , ततश्चन यावद् रागद्वेषादिदोपापादननिदानभूतघनघातिकर्मचतुष्कात्यंतापगमस्तावन केवलं, न च तावत् सर्ववित्ता युक्तिघटाकोटिमाटीकते इत्यपायापगमातिशयाविनाभावी ज्ञानातिशय इति २॥ सर्वेभ्यो हिताः इत्यनेन तु तेषां स्याद्वादवादिनां वचनातिशयः स्पष्टं निष्टंक्यते, न खल्वेककालानेकलोकशंसयसंदेहापोहसमर्थसमस्तनयस्तोमाभिमतसर्वसच्चस्वस्वभाषापरिणाम्यतिशायिवचनविशेषमंतरेण सर्वथा सर्वेभ्यः सर्वदोपकर्तुं शक्यते इति ३॥ वंदनीयानित्यनेन तु पूजातिशयः श्रीमदर्हतां सुप्रतीत एव, प्रशस्तसमस्तजगजंतुजातचित्तचमत्कारिपुरंदरादिसुंदरसुरनिकरविरचितप्रकृष्टाष्टमहाप्रातिहार्यादिप्रकारपूजोपचारस्य त्रिभुवनविभूनामहर्निशमवश्यंभावित्वादिति ॥ एते चत्वारोऽपि देहसौगन्ध्यादीनामतिशयानामुपलक्षणं, तानंतरेगैषामसंभवात् ,ततश्चतुस्त्रिंशदतिशयोपेतान् सर्वज्ञान् वंदित्वेति तात्पर्यार्थः,यद्वा वंदनीयानिति विशेष्यपदं, तत्र वंदनं-नमनस्तवनानुचिंतनादिप्रशस्तकायवाङ्मनोव्यापाररूपां प्रतिपत्तिमहन्तीति वंदनीयाः 'शक्ताहे कृत्याचे (हैम-५-४-३५)त्पर्हार्थेऽत्रानीयः, ते चाईसिद्धाचार्योपाध्यायसर्वसाधवः, अहंति चैते मुक्तिमार्गोपदेशप्रदाना? विप्रणाशबुद्धिजननरपंचाचारपरिपालनविनयविनयन ४ सहायकरणादि५ कारणैर्वन्दनां, यदागमः
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy