________________
भीदे.
अश्वावबोधः
चैत्य श्रीधर्म संघापारविधौ | ॥२८९॥
धर्म नवं दधत् ॥२६॥ त्वयैवं कुर्वता सर्वे, नूनमय खपूर्वजाः। बालिशाश्चक्रिरे तत्ते, अहो बत्वकुलीनते ॥२७॥ हिंसास्थानेच घमिष्ठ, स्वमागात् त्वद्विनेश्वरान विश्चार्यों मनर्व्यः स्यादुत्तिष्ठ स्वगृहं ब्रज ॥२८॥ सुप्रतिष्ठोऽपि तैः श्रेष्ठी, सो प्रतिष्ठं प्रजल्पितः। लजाम्लानमुखांभोजो, निर्ययौ सपरिच्छदः ॥२९॥ मिथ्यात्वमपि संशीतिगतं सोऽथ दत्ततः। तद्वाचिकापमानं च, सरबत्यत्तिसंगतः ॥३० ॥ बचा तिर्यग्भवायुष्कं, स्वायुःशेपमतीत्य च। श्रेष्ठी सागरदचाख्यो, मृत्वा तिर्यगजायत ।। ३१ ।। मवान् भ्रांत्वाऽथ भूयिष्ठानार्तध्यानाद्भवोदधौ। राजनजानि स श्रेष्ठिजीवोऽयं तेऽधुना हयः॥३२॥ यः कारयति जिनानामित्यादि प्राग्भवश्रुतम् । असन्मुखानिशम्यासौ, जातिस्मरणमाप्तवान् ॥३३॥ इत्याकर्ण्य नृपो वाजिचरित्रं चिच्चमत्कृतः। संवेगाद्गद्गदध्वानः, प्रतिहारं समादिशत् ॥३४॥ द्रागुत्सारय पर्याणमसादश्वात्तथा कविम् । इतःप्रभृत्यसौ धर्मबांधवो नस्तुरंगराट् ॥ ३५ ॥ सोऽश्वोऽथ स्वामिपार्श्वे चागहीद्धर्ममगारिणाम्। संन्यासेन विपद्याभूत् , सहस्रारेऽष्टमे सुरः ॥ ३६॥ प्राच्य जन्मावधेत्विा , भक्या चैत्य जिनं स तु । वंदित्वा विधिवन्नाटथं, विदधे विवुधः सुधीः ॥३७॥ कांचनैः कुसुमैस्तीर्थभूमि ता परिपूज्य च । स्वं प्रकाश्य च तीर्थेशं, पुनर्नत्वा दिवं ययौ ॥ ३८ ॥ अश्वजीवस्ततस्तत्र, स्वःसुरवान्यनुभूय सः । च्युत्वाऽत्रैव समुत्पद्य, लप्स्यते पदमव्ययम् | ॥३९॥ अथ लोकोपकाराय, भगवान् भृगुकच्छतः । विजहार महीमेनामहीनमहिमा प्रभुः ॥४०॥ भृगुकच्छे तथा स्वामी, स्वांशिभ्यां यामपावयत् । भुवं तत्र सुराः स्तूपं, स्वर्णरत्नैर्वरैय॑धुः॥४१॥ प्रतिमा स्थापयामासुः, तत्र श्रीसुव्रतार्हतः। तीर्थमश्वावबोधं तत् , प्रावर्तत ततश्विरम् ॥४२॥ सुदृशाममृतांजनमिति सुयशा मुनिसुव्रतः प्रभुः श्रीमान् । मुचिरं दिदेश धर्म परोपकृतये प्रय| तमानः ॥४३॥ इति मुनिसुव्रतस्वामिकथा॥
॥२८॥