________________
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ ॥२६९॥
ZIRNYANDINGPAG
लगिता ईपत् पिष्टा वा अन्योऽन्यगात्रादिभिर्वा लिङ्गनकादिवत् मीलिताः, संघातिताः घृतेलिकादिवत् पिण्डीकृताः, लोलावटीकृता इत्यर्थः निरुद्धाद्यर्थं स्वमल्लादिवद् वा मिथो गात्रैर्मीलिताः, संघट्टिता मनाक् पीडिताः, यदागमः - “जरजञ्जरो य थेरो तरुणाणं | जमलपाणिमुच्छहओ । जारिस वेयण देहे एगिंदियघट्टणे तहय || १||" परितापिताः सर्वाङ्गं पीडिताः कृताल्पपीडा वा, कृमिताः कृतगाढपीडा ग्लानिं प्रापिता, जीवितात्र शेषीकृता यावत् अवद्राविताः, उड्डाविता वा उत्त्रासिता भयात् केचित् उत्कर्णीभूय स्थिताः केचिच्च पलायन्ते स केचिच्च पिण्डीकाचटनादिना मूर्च्छिता इव निश्रेष्ठाः संजाताः इत्यर्थः, स्थानात् स्थानं स्थानादपस्थानं वा संक्रामिताचा - उत्पत्तिस्थित्यादिना ईप्सितत्वेन स्वस्थानात् शुभस्थानाद्वा अनुत्पच्यादिना अनाश्रितत्त्वेन परस्थानं सञ्चारिता- नीताः स्थानभ्रष्टा कृताः, रोलविया भोलविया इत्येकोऽर्थः 'जीवितात् व्यपरोपिताः प्राणेभ्य उत्खनिता भ्रंशिता मारिता इत्यर्थः, एषा विराधना ७, ततः किमित्याह - ' तस्स मिच्छामिदुकडं ' पूर्व यस्य विराधनाप्रकारस्य आलोचना कृता तस्याधुना मिच्छामिदुक्कडं, देमि इति शेषः, तस्स पडिकमामि इत्युक्तं भवति, आह च - "वोसिरिय पडिकमइ तस्स मिच्छुक्कडं देइ" यद्वा तस्य उक्तार्थस्य विराधनाप्रकारस्य मिथ्यावशात् मूढत्वेन यन्मे दुष्कृतं - दुष्ठु अयतनया विधानं तत्पुनरावृच्या दुष्कृतं तदुत्थं पापं मिथ्या-विफलं भवत्वित्यर्थः, एपा विराधना प्रकारसंपत् । इयं च अस्या गाथातः एवं व्याख्याता - "जीवा विराहिया पंचमी उ पंचिंदिया भवे छट्ठी | मिच्छामि दुक्कडं सत्तमीमी ठामि उस्सग्गं ॥ १ ॥ " अन्ये तु ववरोविया इत्यन्तां सप्तमीं मिच्छामिदुक्डमित्यष्टमीमाहुः, भवति च सम्यग् मिथ्यादुष्कृतकर्तुर्विक्रमकुमारस्येवाशुभकर्मक्षयात् समीहितफलावाप्तिः, तथा चागमे - " जया ऊण किंचि अन्नाणमोहपमाइयाइदोसेणं सहसा एगिंदियाईणं संघट्टाइ कयं हविज्ञा तथा य पच्छा हा हा हा दुट्ठुकयमम्हेहिं घणराग
ईर्यापथिकीव्याख्या
॥२६९ ॥