SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्यश्रीधर्मसंघाचारविधी ॥२६७॥ | मिति न्यायात अनेनासायपि सजीवेत्याह, यदागमः-"पुढवी चित्तमंतमक्खाया अनेकजीया पुढोसत्ता अन्नत्थ सत्थपरिणयेणं" योपथियुक्तिश्व-सात्मका विद्रुमलवणोपलादयः पृथ्वीविकाराः समानजातीयाङ्कुरोत्पत्तिप्रत्युपलम्भात् देवदत्ताशोमांसाकुरवत् , अथया कीव्याख्या दगमादृत्ति क्षेत्रक्षाराद्यनुपहतभूमौ चिक्खिल्लः तत्र सङ्क्रमणे, एवं वगमट्टि तसमट्टि वणोदग तसोदगेत्यादयः शेषा नर द्विकत्रिकादिसंयोगा ज्ञातव्याः , तदुपलक्षणत्वादस्य, भणितं च-"तेऊवाउविहणा एवं सेसावि सवसंजोगा। नचा विराहणदुगं वजंतो जयसु उव उत्ती "इह तेजोवाय्वोरग्रहणं गमनागमनादौ प्रायोऽसंभवान् , संभवे वा दावानलनद्यादौ स्वल्पविषयत्वेनाविवक्षणात् , एगेदियेत्यत्र जातौ ग्रहीप्यमाणत्वाच्च,एतयोश्चैवं सात्मकत्व-सात्मकोऽग्निः यथायोग्याहारोपादानेन वृद्धिविशेषतविकारवयात पुरुषवत् , आहारण वृद्धि दर्शनाद् पालकवत् , तथा सात्मकः पवनः पराप्रेरितनिपततिर्यग्गमनात् गोवत् , अन्यैरप्येषां पण्णां सात्मकत्वमभिधाय वि. राधनापरिहार उक्तः, तथा च भागवते पुराणे-"पृथिव्यामप्यहं पार्थ !, पायावग्नौ जलेऽप्यहम् । वनस्पतिगतश्चाई, सर्वभूतगतो| ऽप्यहम् ॥१॥ यो मां सर्वगतं ज्ञात्वा, नैव हिंस्येत् कदाचन । तस्याहं न प्रणश्यामि, न चासौ मे प्रणश्यति ॥२॥" संयोगास्त्रसान्ता इहेति पुनस्तद्विशेषानाश्रियाह-मर्कटः लूताकोलिक इत्येकोऽर्थः निवेलिकारव्यो वृत्तपिपीलिकादि, लालाजंतूपलक्षणमिदं, सन्तानस्तल्लालाजालक, प्राकृतत्वात् स्त्रीलिंगः, यद्वा सन्तानः-परस्परानुलमा कृमिकीटिकादिश्रेणिः, हारीति या प्रसिद्धा,यदुक्तं आचारांगचूर्णी-"अहवा संताणओ पिपीलियाईणं"। तेषु संक्रमणे चंक्रमणे या विराधना तस्याः प्रतिक्रमितुमिच्छामीति विशे| पहेतुसंपत् ४ । अथ कियन्तः शृंगग्राहिकया कथयितुं शक्यन्ते इति पञ्चमी संग्रहसंपदमाह -'जे मे जीवा विराहिया' किं | वहुना ?-ये केचनान्येऽपि सूक्ष्मा बादराः त्रसाः स्थावरा ज्ञाता अज्ञाता लक्ष्या अलक्ष्या मे-मया इहाऽऽत्मनिर्देशेन स्वकृतफल VOU२६७॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy