________________
श्रीदे
बन्धुदत्तकथा
चैत्य श्रीधर्मः संघाचारविधौ ॥२३५॥
द्वेष्यमवाप्नुयात् ।।२५८॥ येन येन शरीरेण, यद्यत् कर्म करोति यः। तेन तेन शरीरेण, तत्तत्फलमथानते ॥२५९॥ अपिचत्रातारं नाधिगच्छति, रौद्राः प्राणिविहिंसकाः । उद्वेजनीया भूतानां, यथा व्यालमृगास्तथा ॥२६०॥ आत्मोपमस्तु भूतेषु, यो वै भवति पुरुषः । अस्तदंडो जितक्रोधः, स प्रेत्य सुखमेधते ॥२६११॥ रूपमत्यंगतामायुर्बुद्धि सचं वलं स्मृतिम् । प्राप्तुकामैनरै हिंसा वर्जितच्या कृपात्ममिः ॥ २६२ ।। नहि प्राणैः प्रियतरं, लोके किंचन विद्यते । तस्माद् ध्येयं नरः कुर्याद् , यथाऽऽत्मनि तथा परे ॥२६३।। तथादि ग्रन्थान्तरे दयावरूपमुक्तं-आत्मदया कथं स्याद् , उच्यते, यः स्वकीयमात्मानं जानाति, निरावरणस्वरूपोऽय मात्मेत्यात्मस्वरूपं जानन् मा ममात्मानं कर्मावृणोत्विति जानन् कर्मबन्धहेतुतो यो जीवो यतनां करोति सा खदयेति, या परप्राणरक्षा सा परदया, यस्य खदयाऽस्ति तस्य नियता परदया, परदयायां तु स्वदया भाज्येति । मृत्युतो भयमस्तीति, विदुषां भूतिमिच्छताम् । किं पुनहन्यमानानां, चेतसा जीवितार्थिनां ॥२६४|| व्यास:-कंटकेनापि विद्धस्य, महती वेदना भवेत् । चक्रकुंतासिशल्यायभिंद्यमानस्य किं पुनः ॥२६५॥ दीयते मार्यमाणस्य, कोटिं जीवितमेव वा । धनकोटि न गृहीयात् , सर्वो जीवितुमिच्छति ॥ २६६ ॥ यतः-अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये। समाना जीविताकांक्षा, तुल्यं मृत्यु भयं द्वयोः ॥ २६७ ॥ भीष्मः --तदेतदुत्तमं धर्म, अहिंसालक्षणं शुभम् । ये चरति महात्मानो, नाकपृष्ट वसंति ते ॥ २६८॥ यतः-धर्मस्यायतनं श्रेष्ठ, स्वर्गस्य च सुखस्य च । अहिंसा परमो धर्मः, तथाऽहिंसा परं तपः ॥२६९॥ अहिंसस्य तपोऽक्षय्यमहिंस्रो जायते सदा । अहिलः सर्वभूतानां, यथा माता यथा पिता । २७०॥ किंच-अहिंसालक्षणो धर्म, इति धर्मविदो विदुः । यदहिस्रं भवेत्कर्म, तत् कुर्यादात्मवानरः ॥२७१।। सर्वयज्ञेषु वा दान, सर्ववेदेषु वा श्रुतं । सर्वदानफलं वापि, नैवत तुल्यमहिंसया ॥ २७२ ।। वह देवयाण
॥२३५॥
-