SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दनदिशा श्रीदे. चैत्यश्रीवर्म० संघाचारविधौ ॥१६॥ विधीयमानं सर्वमपि चैत्यवंदनवंदनकादिधर्मानुष्ठानं महाफलं भवेद्, अन्यथा सातिचारतया श्रीदत्ताया इव कदाचिदनमपि जनयेत् , आह च-"धर्मानुष्ठानवैतथ्यात्, प्रत्यपायो महान् भवेत् । रौद्रदुःखौषजनको, दुष्प्रयुक्तादिवौषधा ॥१॥"दिति, अत एवाविधिनाऽस्य विधाने सातिचारत्वात् प्रायश्चित्तमप्युक्तमागमे, तथा च महानिशीथसप्तमाध्ययनसूत्रं 'अविहीए चेइयाई बंदिजा तस्स णं पायच्छित उवइसिज, जओ अविहीए चेइयाई वंदमाणो अन्नेसि असई जणेइ इइ काऊणं" इदमेव शदतथ्येन विशुद्धधर्मानुष्ठानकरणं श्रद्धालोर्लक्षणं, तथा-विहिसारं चित्र सेवइ (सिद्धान्ता) सचिमं अणुट्ठाणं । दवाइदोसनिहओवि पसायं बहइ तंमि ॥१॥ति, ललितविस्तरायामप्युक्तं-'एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकडेतिः, अंगीकृता लोकोत्तरप्रवृत्तिः, समासादिता धर्मचारिति, अतोऽन्यथा विपर्ययः, आलोचनीयमिदं सूक्ष्मपियामेव, शास्त्रोक्तमुपदेशमुल्लंघ्य पुरुषमात्रप्रवृत्तोऽपरो न हितायुपाय: स्यात्' ननु तर्हि चैत्यवंदनादिविधरपवादो गतानुगतिकरूपः स्यात् , नैवं, यत उक्तं 'अपवादोऽपि सूत्रानाबाध्या गुरुलाधवालोचनपरोऽधिकदोपनिवृत्त्या शुभः शुभानुबंधी महासन्चासेवित उत्सर्गभेद एव । उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुत्वात् , यदागमः---उन्नयमविक्ख निन्नस्स पसिद्धी उन्नयस्स निचं व। इय अनुनाविक्खा उस्सग्गववाय दो तुल्ला ॥१॥ अत एवोक्तं-"अविहिकया वरमकयं असूयवयणं भगंति समयन्न् । पायच्छित् अकए गुरुयं बित कर लहुयं ॥१॥" न पुनः सूत्र एव शधया, मुरुलाधवचिन्ताऽभावेन, तद्धि परमगुरुलाधवकारिक्षुद्रगच्चविजृमित संसार ओतमि कुशकाशावलंबनप्रायमहितमिति भाग्यं सर्वधा, निरूपणीयं प्रवचनगाभीर्य,यतितव्यं उत्तमनिदर्शनष्विति श्रेयोमार्गः" । श्रीरता कया पुनरवं---- ama m albergetime InHemantra
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy