________________
श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ॥१५८॥
पुंडरीकेण लक्ष्यमाणः सुदूरतोऽपि जनैः। सुरसिंधुसलिलनिर्मलचलचामरवीज्यमानतनुः ॥ ६९॥ उन्नमितदक्षिणकरैर्मगधगणैः श्रीपतिश्रीपठ्यमानरिपुविजयः। परितः प्रसृमरहरिकरिस्थभटसंकटितनृपमार्गः ।। ७० !! मधुमधुरस्वरसुंदरगायनजनगीयमानकीर्तिभरः। षेणवृत्तम् | श्रीपेणनराधीशो युगादिदेवस्य चैत्यमगात् ॥ ७१ ।। चतुभिः कलापकं ।। वीक्ष्य जिनविंत्रमुन्मुच्य चामरच्छनखड्गमुकुटगजान् । श्रद्धालुसारपरिकरसहितो विहितोत्तरासंगः ॥७२।। विधिना जिनमदनांतः प्रविश्य संपूज्य भगवतः प्रतिमाम् । एकाग्रमना नृपतिदेवानमिवंदते यावत् ॥७३॥ श्रावकवेषास्ताव केऽपि नरास्तत्र कथमपि समेत्य । अकृपाः कृपाणिकाया घातं राजानममि मुमुचुः (७४|| विधिशुद्धचैत्यवंदनविधानतत्परनरेन्द्रवासनया । रंजितमनसा शासनदेव्या ते स्तंमिताः सर्वे ॥७५॥ अथ किमिदं किमिदमिति प्रभणस्तत्रागमञ्जनः सर्वः। नृपतिरपि बलग्रीवस्तथास्थितांस्तानिरीक्षिष्ट ॥७६।। अभयप्रदानपूर्व नृपपृष्टस्तेऽभणन् यथा देव ।। भवतो घाताय वयं प्रहिता विक्रमनरेंद्रेण ॥७७॥ धिक् कथमदयं त्वां नृपतिलक! निहंतुं समुद्यताः पापाः। इति सन्मनमः सर्वे ते द्रुतमुचंभिता देव्या ७८॥ अथ नृपतिरप्रदर्शितवदनविकारः स्वधाममागत्य । तानानाय्य यथोचितकृतसत्कारान् विसृज्य | ततः ॥७२॥ दध्यावमिमरतस्करविषधरजलमलादिरोधाद्यैः। बह्वन्तं कैरतं न नीयते जीवितं यावत् ८०॥ तावद् विमुक्तसंगैरङ्गीकृतचरणगुणगणैर्भव्यैः। सज्ज्ञानाधिगमपरैस्तुर्यपुमर्थाय यतितव्यम् ।।८१॥ इति चिंतयतो नृपतेः सत्वरमुद्यानपालका एत्य । श्रीभुवनमानुसुगुरोरागमनमचीकथनुचैः ॥८॥ श्रुत्वेति नृपस्तेम्यो दच्चा दानं सुतादिपरिकलितः । गत्वा नत्वा च गुरुन् अशृणोदिति देशनां सम्यक् ॥८३॥ "यावन जरा न रुजा न विनसंघो न चेन्द्रिये हानिः । तावदलममलमतिना स्वहितकृतावुद्यमः कार्यः॥८४॥"इत्याकर्ण्य सकर्णः क्षितिपः पुत्रं सुलोचनं राज्ये । कृत्वा जगृहे दीक्षां पार्थे श्रीभुवनभानुगुरोः॥८५।। श्रीपेण- D|| ॥१५८॥