SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीदे अमिगमपंचक चैत्यश्रीधर्म संघाचारविधौ ॥१५२॥ |प्रभावनानिमित्तं महा चैत्यादिषु याति, अथ सामान्यविभवस्तदौद्धत्यादिपरिहारेण लोकापहासं परिहरन् ब्रजति, तत्र चैत्ये प्रविशन् पंचविधाभिगमं करोति, इत्येतत्संबंधायातं द्वितीयं 'अभिगमपणगति द्वारं विघृण्वन्नाह- . सचित्तदवमुझण१ मच्चित्तमणुज्झणं२ अगत्तं३ । इगसाडिउत्तरासंग४ अंजली सिरसि जिणदिद्वे५ ॥२०॥ ____ सचिचद्रव्याणां सांगाश्रितानां कुमुमतांबूलादीनां उज्झनं-परित्यागः १ अचित्चाना-कटककुंडलकेयरहारादीनां द्रव्याणां इत्यत्रापि योज्यं अनुज्झनं---अपरित्यागः २ मनऐकाम्यं रागद्वेषाभावेन मनःसमाधिरनन्योपयोगितेतियावत् ३ एकसाटक उत्तरासंगः ४ एक-एकसंख्यो न द्वथादयः शाटको देशांतरप्रसिद्धः पृथुलपटादिरूपो यत्र स उत्तरासंगः-उपरितनं वस्त्रं, प्रावरणवस्त्रमित्यर्थः, उक्तं च आचारागाचूणौँ-'एगसाडो,यदुक्तं भवति-एगपावरणु'ति तेन कृत्वा उत्तरासंग-उत्तरीयकरणं' कल्पचूर्णावप्युक्तं-'उत्तरिजं नाम पावरणं, क्वचित् उत्तरिज नाम पंगुरणमितिपाठः, एवं च एगेण पंगुरणवत्थेण उत्तरासंगो किजइ | इति भणियं होइ,'अनेन च निवसनयनेणोत्तरासङ्गकरणनिपेधमाह', निवसनवसनस्यांतरीयशब्दवाच्यत्वात् , तथा च कल्पनिशीथचूर्णी 'अंतरि नाम नियंस'ति, एकग्रहणं पुनरुत्तरासङ्गेऽनेकवखनिषेधार्थ, न तु सर्वथोपरितनप्रावरणवस्त्रस्य, एवं च | परिहितैकवस्रो द्वितीयेन वस्त्रेण उत्तरासंगं कुर्याद् इत्युक्तं भवति, यदुक्तं पंचाशकवृत्ती-'एकवस्त्रपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासंग' इति, मार्कण्डेयपुराणेऽयुक्तं-नैकवरेण भुञ्जीत, न कुर्याद्देवतार्थनम्" इत्यादि, एतच्च पुरुषमाश्रित्योक्तं, स्त्री तु विशेषप्रावृताङ्गी. विनयावनततनुलतेति, तथा चागमः-"विणओणयाए गायलट्ठीए"ति, एतावता शक्रस्तवादावप्यासा | शिरस्यंजलिन्यासो न युज्यते, हृदादिप्रसक्तेः, यत्तु करयल जाव कटु एवं वयासीत्युक्तं द्रौपदीप्रस्तावे तद् भक्त्यर्थ न्यूछादिवदं- ॥१५२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy