SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रतिमा दृष्टिकः, सम्यग्दृष्टिरपि कश्चित परिमितसंसारो भवति, कश्चिदपरिमितसंसारः उपशमश्रेणीशिर प्राप्तानामपि केषांचिदनंतसं-स्वोपत्र तकम:// सारभावादतः पृच्छति-परीतसंसारिकोऽनंतसंसारिकः, परीतः परिमितः स चासौ संसारश्च परीतसंसारः, सोऽस्यास्तीति परीतसंसारिकोऽतोऽनेकस्वरादिति क प्रत्ययः, एवमनंतश्चासौ संसारश्चानंतसंसारः सोऽस्यास्तीत्यनंतसंसारिका, परीतसंसारिकोऽपि कश्चित् सुलभबोधिको भवति यथा-शालिभद्रादिकः, कश्चिदुर्लभबोधिको यथा-पुरोहितपुत्रजीवस्ततः पृच्छतिमुलभा बोधिर्भवांतरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः एवं दुर्लभबोधिकः, मुलभबोधिकोऽपि कश्चिद् बोषिं लब्ध्वा विराधयति ततः पृच्छति-आराधयति सम्यक्पालयति बोधिमित्याराधकः इतरो विराधकः, आराधकोऽपि कश्चित्तद्भव मोक्षगामी न भवति ततः पृच्छति-चरमोऽनंतरभावी भवो यस्यासौ चरमः अभ्रादिभ्य इति मत्वर्थीयोऽप्रत्ययस्तद्विपरीतोऽचरमः एवमुक्ते सूर्याभादि श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादी-भो सूर्याभ ? त्वं भवसिद्धिकः यावच्चरम इति वृत्तिः । कल्पस्थितिसूत्राणि च-छविहेकप्पट्टिई पं०-१ सामाइअसंजयकप्पहिई २ छओवठ्ठावणियसंजयकप्पछिई ३ णिविसमाणकप्पछिई ४ णिविठकाइअसंजयकप्पहिई ५ जिणकप्पछिई ६ थेरकप्पछिई इत्यादीनि । तस्मादईत्मतिमार्चनं सूर्याभादीनां स्थितिरित्युच्यमानेऽपि सम्यग्दृष्टिस्थितित्वेन धर्मवमव्याहतमिति मुनियूदं । ननु सूर्याभस्य तावत्सम्यग्दृष्टित्वं निश्चितं परमष्टाहिकादौ बहवो देवा जिनार्चनाद्युत्सवं कुर्वतीति जीवाभिगमे प्रसिद्धं, तत्र च मिथ्याहपरिग्रहार्थ बहुशब्द इति सर्वदेवकृत्यत्वेन तत् स्थितिरितिचेन्मैवं, तत्रैकैकविमानस्थसंख्यातासंख्यातसम्यग्दृश एव जिनप्रतिमापूजादिपरायणा इति ज्ञापनार्थ बहुशब्दपयोगसाफल्यादन्यथा 'सव्वेसिं देवाणं' इत्यादि पाठरचनाप्रसंगात, अधिकृतजीवाभिगममत्रं चेदं-"तत्थ देसे उत्चरिले अंजण www.
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy