SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रतिमा पतकम् ॥२४॥ -wwwwwwww जगवृत्तित्वस्यान्यसाधारण्येनाविस्मापकत्वात्, फलेन नंदीश्वरादिपतिपादकतायाः प्रामाण्यनिर्णयेच, पाग्भगवद्वचनानाश्वासन स्वोपत्र मिथ्यादृष्टित्वमसंगादिति वचनस्यापि चैत्यशब्दस्य ज्ञानस्यैकत्वात्, ज्ञानार्थे चैत्यशब्दस्याविष्टबहुवचनस्य कुत्राप्यननुशासनात्, वृत्तिः सिद्धान्तेऽपितथापरिभाषणस्याभावात् , अन्यथा 'केवलनाणं' इत्यस्य स्थले 'चेइआई' इति प्रयोगापत्तेः, यदि वा पूर्वभ- श्लो० ८ गवदुक्तार्थदर्शनस्थले एवेहक्मयोगः स्यादिति कल्पते तदा गर्भगृहस्थमहाव्याधितमृगापुत्रस्य यथोक्तस्य दर्शिनो गौतमस्याधिकारेऽपि तथा प्रयोगः स्यादिति किमसंबद्धवादिना पामरेण सह विचारणया, स्यादेतत् , ' तस्स ठाणस्से' त्यत्र तच्छब्दाव्यवहितपूर्ववर्तिपदार्थपरामर्शकत्वान्नंदीश्वरादिचैत्यवंदनानमित्तकालोचनाभावप्रयुक्ताया एवानाराधनाया अभिधानाद्विगीतमेतदिति, मैवं, तच्छब्देन व्यवहितस्याप्युत्पातेन गमनस्यैवालोचनानिमित्तस्य परामर्शात, यतनया विहितेन नभोगमनेनापि दोषाभावादत एव च यतनया ग्रामानुग्राम विहरता गौतमस्वामिनाष्टापदारोहावरोहयोर्जघाचारणलब्धि प्रयुज्य तच्चैत्यवंदने निर्दोषता तद्वंदनं चोक्तमुत्तराध्ययननियुक्तौ-'चरम सरीरो साहू आरुहइ णगवरं णअन्नो'त्ति, एयं तुउदाहरणं कासीय तहिं जिणवरिंदो सोऊण तं भगवतो गच्छइ तहिं गोयमोपहितकित्ती आरुझंतं णगवरं पडिमाओ वंदइ जिणाणंति भगवं च गोअमो जंघाचारणलद्धीए लूतातंतुमिणिस्साए उर्दु उप्पइओ'त्ति चूर्णिः, न च लब्धिप्रयोगमात्र प्रमादः अग्लान्या धर्मदेशनादिना तीर्थकुल्लब्धिप्रयोगेऽपि तत्प्रसंगात्, किन्तु तत्कालीनमौत्सुक्यमिति निरुत्सुकस्य नभोगमनेनापि चैत्यवन्दनेन न दोष इति द्रढतरमनुसन्धेयं, अत एव भगवत्यां तृतीयशते पंचमोद्देशके संघकृत्ये साधो क्रियकरणस्य विषयमात्रमुक्तं गारवपूर्वमभियोगेचानालोचनायामाभियोग्येषु गतिरुक्ता, प्रशस्तव्यापारे तु न किंचिदेव, तथा च तत्पाठः 'अणगारेणं भंते ? भाविअप्पा बाहिरए पोग्गले अपरियाइत्ता ॥२४॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy