________________
प्रतिमा पतकम्
स्वोपन वृत्तिः श्लो०३
॥१५॥
पच्छाणुपुव्वीए अणाणुपुव्वीए जीहाए तरिज्जा तओ तेणेवणंतरभणियतिहिकरणमुहुत्तणक्खत्तजोगलग्गससिवलजंतुविरहिओगासेचेइआलगाइकमेणं अट्ठमभत्तेणं समणुजाणाविऊणं गोयमा मडयापबंधेणं सुपरिफुडं निउणं असंदिद्धं सुत्तत्थं अणेगहा सोऊण धारेयव्वं, एयाए विहीए पंचमंगलस्स णं गोयमा विणओवहाणे कायव्वे" इत्यादि । तदयमनेकसूत्रसिद्धो धर्मास्तिकायादि वदनादिरनंततीर्थकरगणधरपूर्वधरैरुपदर्शितमहिमा पंचमंगलमहाश्रुतस्कंधो यैरपलप्यते तेषामन्यश्रुताभ्युपगमोऽपि गोलागुलगलाभरणनिवेशतुल्य इति ध्येयं । एवं च नमस्कारादौ प्रज्ञप्तिसूत्रे स्थितं 'नमो बंभीए लिवीए' इति पदं प्रतिमास्थापनायात्यंतोपयुक्तमेवेति मंतव्यं ।
हित्वा लुम्पकगच्छसूरिपदवीं गार्हस्थ्यलीलोपमां, प्रोद्यहोधिरतः पदादभजत श्रीहीरवीरांतिकं । आगस्त्यागपुनर्वतग्रहपरो यो भाग्यसौभाग्यभूः,
स श्रीमेघमुनिर्न कैः सहृदयैर्धर्मार्थिषुश्लाध्यते ॥ १ ॥ एकस्मादपि समयपदादनेके, संबुद्धा वरपरमार्थरत्नलाभात् ।
अम्भोधौ पतति परस्तु तत्र मूढो, निर्मुक्तप्रकरणसंप्रदायपोतः ॥ २ ॥ . अथ नामप्रतिबंद्या स्थापना स्थापयति