________________
स्वापक्ष
प्रतिमा शतकम्. ॥२९४॥
श्लो.९६
यनयानां बालमध्यमौ प्रत्यपरिणामकातिपरिणामकत्वेन दुष्टत्वादत एव" मृढ नइअं कालियं तु" इत्याधुक्तं, सर्वाशङ्कानिराकरणाय च नयद्वयन तत्प्रणयनं न्याय्यं, यथा-" प्रमादयोगात्प्राणव्यपरोपणं हिंसा " इति तत्वार्थशास्त्रे हिंसालक्षणमभिहित, इत्थं विचार्यमाणे च 'क्रियाहेतुः पुष्टिशुद्धिमच्चित्तं धर्म' इति हरिभद्रोक्तं लक्षणमतिव्याप्त्यादिदोषाकलङ्कितं सर्वत्रानुगतं तं निरवा सङ्गच्छते, अत्रार्थे 'धर्मश्चित्तप्रभव' इत्यादि षोडशकं तवृत्तिश्चास्मत्मणीता योगदीपिकानाम्नी अनुसरणीया, 'यावानुपाधिविगमस्तावान् धर्म' इत्यप्युभयोपाधिविगमनेनोभयनयानुगतं सर्वत्र सङ्गम्यमानं रमणीयमेव-" सेवंता कोहं च मायं च लोभ च एयं पासगस्स दंसणं" इत्यादि मूत्रमप्यत्र प्रमाणमेव । द्रव्यस्त तदिह भक्तिविधिप्रणीते पुण्यं न धर्म इति दुर्मतीनां कुबुद्धिः। तत्त्वत्रयेऽस्तु सुधियां विविधोपदेशः संक्लेशकृद् यदि जडस्य किमत्र चित्रम् ॥ १॥ अधर्मः पूजेति प्रलपति स लुंपाकमुखरः श्रयन् मिश्रं पक्षं तमनुहरते पाशकुमतिः। विधिभ्रान्तः पुण्यं वदति तपगच्छोत्तमबुधाः सुधासारां वाणीमभिदधति धर्मों प्रयमिति ॥२॥ ॥ ९५ ॥
गंभीरेऽत्र विचारे गुरुपारतन्ध्येणैव फलवत्तां दर्शयन्नुपदेशसर्वस्वमाहइत्येवं नयभङ्गहेतुगहने मार्गे मनीषोन्मिषेन्मुग्धानां करुणां विना न सुगुरोरुद्यच्छतां स्वेच्छया। . तस्मात्सद्गुरुपादपद्ममधुपः खं संविदानोबलं सेवां तीर्थकृतां करोतु सुकृती द्रव्येण भावेण वा ॥१६॥
व्याख्या-'इत्येवम्' इति-इत्येवममुना प्रकारेण नया नैगमादयो, भङ्गाः संयोगाः, हेतव उत्कृष्टायपेक्षया ||२९४॥